SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ चत्रिम् । 158 गार्हस्थ्यधर्म लब्ध्वा हर्षवान् बोभवाम्बभूव । सर्वस्वविनाशकानि नरकप्रदानि च सप्तव्यसनानि निजदेशाबहिः कृतवान् , निजामृततुम्बाच्च बहून् रोगिणो नीरोगान् विहितवान् , इत्यादि बहुविधपुण्यानि विधाय न्यायनैपुण्यधर्मेकछत्रराज्यं हरिबलोऽपालयत् । अथ व्यतीते कियति समये हरिवलो निजगुरुं पुनः सस्मार । गुरुरपि सुसमयं विज्ञाय काञ्चनपुरोद्याने समाजगाम । हरिवलोऽपि सपरिवारो वन्दनाय प्रतस्थे। वन्दित्वा चोचितस्थाने समुपविश्य देशनां शुश्राव । गुरुरप्युपदिशतिराजन् ! त्वं जीवदयाप्रभावादेव सकलसमृद्धिकोभूतः, केवलं जीवोपकारादियत्फलं जातं । यच्च त्वं जीवानुपकर्यास्तर्हि मौक्तिकसुखं लभेथाः । सर्वजीवदयां कः परिपालयेत् यश्चारित्रं पालयितुं शक्नुयात् । अतस्त्वयेदानीं यतिधर्मो ग्राह्यः येन मोहादिदुःखं विनाश्यात्मीयराज्यं लभस्व । || गुरुवचः समाकर्ण्य परमवैराग्यवान् हरिबलो गृहमागत्य स्वराज्यं ज्येष्ठापत्याय दत्वा सत्रिस्त्रीको II दीक्षया दीक्षितो बभूव । दीक्षितोहर्निशं दुष्करं तपः कृत्वा कर्माणि क्षिप्त्वा शाश्वतसुखमयं मोक्षं प्राप । अतोऽपि भव्याः ! जीवदयाविषये हरिवलचरित्रं लक्ष्यीकृत्य विशेषतो जीवदयापरिपालनोद्यतमानसा भवेयुरिति । ॥ ५७।। Sain International For Personal & Private Use Only www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy