SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 157 | यद्धितं च तदुपदिशन्तु निजचेतसि स्थापयतु मयि तुष्यतु । इत्यादि गदित्वा गुरुं प्रणनाम । पश्चाच्च सुकृते लग्नमनसं हरिबलं दृष्ट्वा गुरुर्बभाषे-राजन् ! त्वमेव धन्यतमो यस्येतादृशी द्रढीयसी धर्मरतिः सुमतिः । संसारे भिन्नरुचिमन्तो जनास्तथाहि-- केचिभोजनभङ्गिनिर्भरधियः केचित्पुरन्ध्रीपराः, केचिन्माल्यविलेपनैकरसिकाः केचिच्च गीतोत्सुकाः। केचिद्यूतकथामृगव्यमदिरा नृत्यादिबद्धादराः, केचिद्वाजिगजोक्षयानरसिका धन्यास्तु धर्मे रताः ॥१॥ ____ इत्थं द्वैविध्यमापन्नः स धर्मस्तत्रैको हि साधुधर्मो द्वितीयो गार्हस्थ्यधर्मश्च । तत्रापि निश्चलधर्ममूलं जीवदयैव । यश्चान्यो धर्मः सोऽपि तस्या एव विस्तारः। एवं च यो जीवदयाधर्मपरिपालनदक्षः स सर्वविरतिसाधुत्वपरिपालने रतिमीहते । किं च चारित्र्यमन्तरा दयापालनं सुरीत्या न संभवति । यश्च वै साधुधर्मपालनेऽशक्तः स पुमान् गार्हस्थ्यधर्मपरिपालनाय प्रावीण्यं लभते । सर्वधर्मापेक्षया केवलमेष एव समाराध्यो जीवदया धर्मः । प्रमादमपहाय दयैव समाराधनीया । इत्यादि देशनां श्रुत्वा गुर्वन्तिके ससम्यक्त्वमणुव्रतमग्रहीत् । अन्यान्यपि व्रतानि यथाशक्ति गृहीत्वा निजगृहमाजगाम । यथा निर्धनो जनो मन्दारद्रुमं लब्ध्वा हर्षवान् बोभवीति, तथा हरिबलोऽपि in Educati o nal For Personal Private Use Only Clinelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy