________________
157 | यद्धितं च तदुपदिशन्तु निजचेतसि स्थापयतु मयि तुष्यतु । इत्यादि गदित्वा गुरुं प्रणनाम । पश्चाच्च सुकृते लग्नमनसं हरिबलं दृष्ट्वा गुरुर्बभाषे-राजन् ! त्वमेव धन्यतमो यस्येतादृशी द्रढीयसी धर्मरतिः सुमतिः । संसारे भिन्नरुचिमन्तो जनास्तथाहि-- केचिभोजनभङ्गिनिर्भरधियः केचित्पुरन्ध्रीपराः, केचिन्माल्यविलेपनैकरसिकाः केचिच्च गीतोत्सुकाः। केचिद्यूतकथामृगव्यमदिरा नृत्यादिबद्धादराः, केचिद्वाजिगजोक्षयानरसिका धन्यास्तु धर्मे रताः ॥१॥ ____ इत्थं द्वैविध्यमापन्नः स धर्मस्तत्रैको हि साधुधर्मो द्वितीयो गार्हस्थ्यधर्मश्च । तत्रापि निश्चलधर्ममूलं जीवदयैव । यश्चान्यो धर्मः सोऽपि तस्या एव विस्तारः। एवं च यो जीवदयाधर्मपरिपालनदक्षः स सर्वविरतिसाधुत्वपरिपालने रतिमीहते । किं च चारित्र्यमन्तरा दयापालनं सुरीत्या न संभवति । यश्च वै साधुधर्मपालनेऽशक्तः स पुमान् गार्हस्थ्यधर्मपरिपालनाय प्रावीण्यं लभते । सर्वधर्मापेक्षया केवलमेष एव समाराध्यो जीवदया धर्मः । प्रमादमपहाय दयैव समाराधनीया । इत्यादि देशनां श्रुत्वा गुर्वन्तिके ससम्यक्त्वमणुव्रतमग्रहीत् । अन्यान्यपि व्रतानि यथाशक्ति गृहीत्वा निजगृहमाजगाम । यथा निर्धनो जनो मन्दारद्रुमं लब्ध्वा हर्षवान् बोभवीति, तथा हरिबलोऽपि
in Educati
o
nal
For Personal
Private Use Only
Clinelibrary.org