________________
184
चरित्रम् ।
धबद्धइटकुमार ७०॥
"
ततोऽन्यचिन्तितमपि विनश्यत्येव । यदसौ कुमारो यत्नतो रक्ष्यमाणोऽपि सहसैव व्यपद्यत । एष दासेरः पौनःपुन्येन हन्यमानोऽपि लक्ष्मीमधिकाधिकामेव लेभानः। इत्थं शोकसागरे पतितो मेदि-| नीपतिः कथमपि रजनीं निर्गम्य जाते च प्रभाते सुतक्रियां विधाय द्वितीये दिवसे सदसि सकलजनसमक्षमित्याख्यातवान्-हंहो मत्पापं सर्वे शृणुत, अमुष्याऽघटस्य पुराकृतं सुकृतनिचयं पश्यत, ज्ञानगर्भस्य ज्ञानमपि कियदस्तीति प्रत्यक्षीकुरुत। जगदेतत्रयीं सर्वेषामाश्चर्यजननीमवगच्छत, IN असावघटो यदैवाऽजनिष्ट, तदैव तमदृष्ट्वैव केवलं जन्ममात्रश्रवणात् पुरोधा मामित्याचख्यौ पुरा, राजन् ! एष ते राज्यं त्वयि जीवत्येव ग्रहीष्यतीति। ततो राज्यलोभेन धर्ममप्यहं नाऽजीगणम् , नैवात्मविशुद्धं कुलमजीगणम् । चाण्डालोऽपि यत्कर्तुं सहसा न प्रभवति, तदप्यहमचीकरम् । किञ्च-मया पापीयसा बाल्यादेवैष मारणाय विहितः सकलोऽप्युद्योगो विफलतामेव निनाय, परमेष निजपुण्यैः सदैव सुरक्षितोऽभूत् । इत्थं स्वकृतं पापं लोकसमक्ष प्रकाश्य तानापृच्छय तदैव पुण्योत्कटमघटकुमारं स महीभर्ताऽभिषिच्य तस्मै निजं प्राज्यं राज्यं प्रदाय सकलं जनं क्षमयित्वा गुरोः पार्श्वे स्वात्मकल्याणसिद्धये संसारोदधितारणसमर्थां दीक्षां प्रपेदिवान् ।
॥ ७०॥
Sain Edd
l ernational
For Personal & Private Use Only
jainelibrary.org