________________
185 अथाऽघटोऽपि तद्राज्यमासाद्य निजजननी, तो मालिको, देवधरं, तानशेषान् वधकांश्च, तदैवाऽऽकार्य राज्यभोजिनो व्यधत्त । तदनन्तरमघटमहीपालो राज्यं प्राज्यं नयेन पालयन् विपक्षपर्दुर्निरीक्ष्योऽपि नयधर्मयोर्वश्यतामैत् । तस्मिन्छासति सति समस्ताः प्रजाः प्रामोदन्त, परां प्रतिष्ठाश्च निन्ये । विषादस्तु विषमीभूयतद्विद्वेषिणां नगराण्यागात् । यस्य यात्रारम्भेऽपि सकला अपि भूपालाः सेवकतामेवाऽऽपेदिरेतमाम् , तस्य सङ्ग्रामकौतुकं केनापि नैवाऽऽपरि। अथैकदाऽत्युग्रतपो वारिधौतान्तरमलोत्करः केवली सुघटितो राजर्षिस्तत्राऽऽययौ । तमागतं श्रुत्वाऽघटराजोऽपि सपरिवारो महीयसाऽऽडम्बरेण समुत्पन्नप्रमोदातिशयस्तद्वन्दनायै तदन्तिकमागच्छत् । अथ कनककमलासीनं राजहंसमिव राजर्षि महीयस्या भक्त्या विधिवदभिवन्द्य पदातिरिव तदने निषसादसः, तदनु श्रुतिसुखं मनोहरं धर्मोपदेशं तदीयमुखारविन्दाच्छ्रुत्वाऽघटमहीपालः प्राग्भवार्जितं निजं चरितमप्राक्षीदसौ । तथाहि-भगवन् ! मया भवान्तरे किमगण्यं पुण्यमकारि, येनाऽमुष्मिन् भवे विपदोऽपि सम्पदः समपद्यन्त । तदाकर्ण्य केवली समूचिवानेवम्-राजन् ! इह भरताऽवनौ विदर्भदेशावतंसभूतङ्कण्डिनाख्यं महानगरं विलसति । तत्राऽऽस्ते वित्रासिताऽशेषवि
For Personal Private Use Only
Sibrary.org