SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 185 अथाऽघटोऽपि तद्राज्यमासाद्य निजजननी, तो मालिको, देवधरं, तानशेषान् वधकांश्च, तदैवाऽऽकार्य राज्यभोजिनो व्यधत्त । तदनन्तरमघटमहीपालो राज्यं प्राज्यं नयेन पालयन् विपक्षपर्दुर्निरीक्ष्योऽपि नयधर्मयोर्वश्यतामैत् । तस्मिन्छासति सति समस्ताः प्रजाः प्रामोदन्त, परां प्रतिष्ठाश्च निन्ये । विषादस्तु विषमीभूयतद्विद्वेषिणां नगराण्यागात् । यस्य यात्रारम्भेऽपि सकला अपि भूपालाः सेवकतामेवाऽऽपेदिरेतमाम् , तस्य सङ्ग्रामकौतुकं केनापि नैवाऽऽपरि। अथैकदाऽत्युग्रतपो वारिधौतान्तरमलोत्करः केवली सुघटितो राजर्षिस्तत्राऽऽययौ । तमागतं श्रुत्वाऽघटराजोऽपि सपरिवारो महीयसाऽऽडम्बरेण समुत्पन्नप्रमोदातिशयस्तद्वन्दनायै तदन्तिकमागच्छत् । अथ कनककमलासीनं राजहंसमिव राजर्षि महीयस्या भक्त्या विधिवदभिवन्द्य पदातिरिव तदने निषसादसः, तदनु श्रुतिसुखं मनोहरं धर्मोपदेशं तदीयमुखारविन्दाच्छ्रुत्वाऽघटमहीपालः प्राग्भवार्जितं निजं चरितमप्राक्षीदसौ । तथाहि-भगवन् ! मया भवान्तरे किमगण्यं पुण्यमकारि, येनाऽमुष्मिन् भवे विपदोऽपि सम्पदः समपद्यन्त । तदाकर्ण्य केवली समूचिवानेवम्-राजन् ! इह भरताऽवनौ विदर्भदेशावतंसभूतङ्कण्डिनाख्यं महानगरं विलसति । तत्राऽऽस्ते वित्रासिताऽशेषवि For Personal Private Use Only Sibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy