________________
बद्ध-
चरित्रम।
टकुमार
186 पक्षीभूतभूपः पुरन्दरो नाम क्षितिपतिः। तस्याऽऽसीन्महीयसी रूपलावण्यायुदारगुणगरीयसी | शची प्रेयसी राज्ञी । यस्य च विद्वषिगृहा अनारतं क्व दिवः, कुत्र भूपालाः क्वचाऽयं स्वामी, क्वचेदं गीतं, क च शिवानां रुतमिति खगारवमिषेणाऽऽक्रन्दन्तितमाम् । तस्य भूपतेर्गजभञ्जनो नाम तनयोऽभवत्, यो हि संग्रामावनौ गजराजकुम्भान् अभनक्, कृतवांश्च नैजमन्वर्थं नाम । सचैकदा तुल्यवयोरूपैर्वयस्यैः सत्रा नन्दनाकारं पुरोपवनमीयिवान् । तत्र च कायोत्सर्गस्थितं गतस्पृहं निरहङ्कारं मुक्तेनिःसोपानमिव कञ्चनमाम्रतरोस्तले व्यलोकत । तदा स्वरूपयौवनमदोन्मत्तो न्यूनधीः कृताङ्गरागसौरभ्यवासितो पवनावनिर्भूपात्मजस्तस्य मुनेः प्रस्वेदमलदौर्गन्ध्यभरेण व्यथितस्तं जुगुप्साञ्चक्रे, दुर्मतित्वात्कुलाबैरवज्ञामपि तस्य भूयसीमकरोत् । तस्मिन् काले कश्चिदेको वयस्यस्तमेवमभाषत, कुमारस्य भविष्यता पुण्यनिचयेन प्रणुन्न इव । अये कुमार ! एनं भवान् माऽवहेलयतु । यदसौ पुण्यप्राप्यपदद्वयदायकः पावनादपि पावनः परमस्तीर्थोऽस्ति । ये खलु भव्यात्मानः परया भक्त्या महताऽऽदरेण नित्यममुं महात्मानं नमस्यन्ति, पूजयन्ति च, तेषामाशु सर्वार्थसिद्धयः करगता जायन्ते। अत एनं प्रणम्य निजं जन्म पवित्रीकुरु, यतोह्यमुष्य दर्शनेनापि प्राणिना
॥ ७१॥
Sain Ellenatonal
For Personal & Private Use Only
bhaw.jainelibrary.org