________________
187
मनेकजन्मार्जितान्यपि पापानि तोयस्थलवणमिव चणाद्विलीयन्ते । इत्थं मधुपाकोपमां वयस्य भणितां गिरं समाकर्ण्य स राजपुत्रस्तन्मित्रं भृशं स्तुवन् नात्मानं निनिन्द | तदनु श्रद्धाभक्तिभरो राजकुमारस्तं मुनिं यथाविधि प्रणनाम । मुनिरप्यवधिज्ञानबलेन तमुपकर्तारं विदित्वा कायोत्सर्ग पारयित्वा कृपया धर्ममुपादिशत् । तथाहि - भो भव्यात्मन् ! इहापारसंसारसागरे पतितानां प्राणिनां धर्मात्परः कोपि त्राता नास्ति, धर्मएव जनान् सुखयति, स एव सदा जीवान् भवाम्भोधितो निस्तारयति, इत्थंभूतस्य धर्मवृक्षस्य कल्पवृक्षोपमस्यातिदृढं मूलं जीवदया निगदिता
1
कृता वाऽमुष्य संसारसागरस्य तटोस्ति । किञ्च हिंसा हि क्रोधरिपोर्भल्लीव दोषाणां पल्लीव सर्वानर्थकरी जागर्तितमाम्, अतो भव्यैः सा हिंसा खलु सदैव त्याज्या धर्मतरुरेव कल्पतरुरिव सेवनीयः । किञ्चाऽस्मिन् संसारे प्राणिनो हि जीवहिंसया कुष्ठित्वं व्रजन्ति, कियन्तः कुनखा जायन्ते, केचिच्च व्यङ्गाः, अपरे च पङ्गवा भवन्ति । किमधिकं कथयामि, जीवहिंसावतां सर्वा अपि विपदः पदे पदे लगन्ति । पातयति च परत्र चामुत्र च महाक्लेशोदधौ । अतः सा हिंसा सदैव हेया, कदाचिदपि नोपादेया सेति । यादृशं पुण्यं सुखं च लोकानां जीवदयया जायते, तादृशं
For Personal & Private Use Only
Jain Education International
jainelibrary.org