SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ 187 मनेकजन्मार्जितान्यपि पापानि तोयस्थलवणमिव चणाद्विलीयन्ते । इत्थं मधुपाकोपमां वयस्य भणितां गिरं समाकर्ण्य स राजपुत्रस्तन्मित्रं भृशं स्तुवन् नात्मानं निनिन्द | तदनु श्रद्धाभक्तिभरो राजकुमारस्तं मुनिं यथाविधि प्रणनाम । मुनिरप्यवधिज्ञानबलेन तमुपकर्तारं विदित्वा कायोत्सर्ग पारयित्वा कृपया धर्ममुपादिशत् । तथाहि - भो भव्यात्मन् ! इहापारसंसारसागरे पतितानां प्राणिनां धर्मात्परः कोपि त्राता नास्ति, धर्मएव जनान् सुखयति, स एव सदा जीवान् भवाम्भोधितो निस्तारयति, इत्थंभूतस्य धर्मवृक्षस्य कल्पवृक्षोपमस्यातिदृढं मूलं जीवदया निगदिता 1 कृता वाऽमुष्य संसारसागरस्य तटोस्ति । किञ्च हिंसा हि क्रोधरिपोर्भल्लीव दोषाणां पल्लीव सर्वानर्थकरी जागर्तितमाम्, अतो भव्यैः सा हिंसा खलु सदैव त्याज्या धर्मतरुरेव कल्पतरुरिव सेवनीयः । किञ्चाऽस्मिन् संसारे प्राणिनो हि जीवहिंसया कुष्ठित्वं व्रजन्ति, कियन्तः कुनखा जायन्ते, केचिच्च व्यङ्गाः, अपरे च पङ्गवा भवन्ति । किमधिकं कथयामि, जीवहिंसावतां सर्वा अपि विपदः पदे पदे लगन्ति । पातयति च परत्र चामुत्र च महाक्लेशोदधौ । अतः सा हिंसा सदैव हेया, कदाचिदपि नोपादेया सेति । यादृशं पुण्यं सुखं च लोकानां जीवदयया जायते, तादृशं For Personal & Private Use Only Jain Education International jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy