SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ 4G द्यबद्य- दयां कुर्याम् तर्हि कियन् मे फलं प्रादुर्भूयान्नाम । अतो धन्येषु धन्यतमः सः यो जीवा- चरित्रम् । त्नसार नुद्धरेत् । अहो धिङ्मां योऽहं सर्वथा जीवान् हन्मि, यदि कथङ्कारमपि मे जीविका निर्वाहो । ३१ ॥ भवेन्नाम तदहं सुकृतविनाशिनीमिमां हिंसाविषलतां तदानीमेव परिजहामि । यो ह्यस्मिन्संसारे धर्मफलमद्राक्षीत्. निजप्रकृतिभद्रश्च स एव कल्याणभाक् । अथ यावद्धरिबल एवं विचिन्तयति तावत् किमाश्चर्यजनकमभूदित्याह__अथ जातु राजपुत्री गवाक्षउपविष्टाऽऽसीत्, एतद्देव रूपेण मारोपमो हरिबलस्तद्गवाक्षस्याधस्ताद् भ्राम्यन्निस्ससार । दृष्दैव तं सा राजपुत्री । तस्मिन् सरागाऽजनि व्यचिन्तयच्च स्वीये हृदि-यदयं हरिबलो मामको भर्त्ता भवतु चेत् , मे मनोऽभीष्टसिद्धिः स्यादिति विचिन्त्य चेत्थं निजमनोऽभीष्टभावं सुदले विलिख्य तद्गन्तव्यवमनि तद्दलं प्राक्षिपत् । पतितं दलं विलोक्य N व्यवहारिपुत्रो हरिवलो ह्युपरि व्यलोकयत् । तदानीं तयोर्दृष्टिमेलनं जातं, पश्चात्सा राजपुत्री मन्मथवधूरूपा कामोत्पादिकौषधिरिवाऽऽसीत् । एवंभूतां तां प्रेक्ष्य तयोमिथो रागप्राबल्यं समजायत, सङ्केतञ्च चक्रतुस्तौ-' यत् कालीचतुर्दश्यां तिथौ द्वाववश्यं दूरदेशान्तरं गच्छेव'। ॥ ३१ ॥ in d o mational For Personal Private Use Only www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy