SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Sha 95 वचः समाकर्ण्य हरिबलो विस्मयान्वितं इत्थमचकथत । यन्मत्स्यो भव॑स्त्वं मह्यं किं दातुमर्हसि ?, IN स चोवाच-मा मां मत्स्यमेव विद्धि, लवणसमुद्राधिष्ठातृदेवं मां जानीहि । इदानीं तावकीनां दृढनियममर्यादां व्यलोकयम् । यतो भूयांसः सुपुमांसो व्रतनियम स्वीकुर्वन्त्येव नहि, भूयांसो गृहीत्वापि न पालयन्ति । किञ्च स्वीकृत्य ये परिपालयन्ति, ते धन्याः। एतादृशो जगत्यां विरला एव । अतो हि त्वन्नियमदाढ्यं विलोक्यातीवाहं प्रहृष्टः । अतोऽभीष्टं वरं वरय ?, यदेव त्वं याचिष्यसे तदेवाहं दास्ये । अथ श्रुत्वैवं सहर्षों हरिबलोऽपि वरं प्राह-देव । 'यद्येव मयि काचिदापत्तिः समापतेत् तदानीं ततोऽहं हाप्यः।' अलमनेनैव सुवरेण, देवोऽप्यद उररीकृत्य वरं प्रदाय तिरोदधे। ततो हरिवलो मत्स्यालाभात् स्वस्त्रिया भीतो नगराबहिः कस्मॅिश्चिद् देवालये समागत्येत्थं व्यचिन्तयत्, यद् मयि शङ्काद्वयं समुपजायते, तयोः पूर्वन्त्वहं जात्या धीवरः, अथान्यद्धीवरस्यापि सतो मम द्रागेव नियमफलावाप्तिः तत्कथम् ?, यथा-चक्रवर्ती नृपोऽहर्मुखे पलाण्डु वपेत् सायं चाहरेत् , तथैकजीवदयातो देवः प्रहृष्य मह्यं वचः प्रादात् ! तद् यदि सर्वजीवेषु JainEduc For Personal Private Use Only nelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy