________________
द्यद्यं - नसार
३० ॥
94
समागच्छेत्, स जीवन्नेव हेयस्त्वया, यद् असौ नियमः सुरीत्या स्वीकरिष्यते, तर्हि यथाऽम्भसां सेचनात् न्यग्रोधाङ्कुरो विस्तारमापद्यते, तथा व्रतमयो वृक्षः शुद्धभावरूपजलसेचनेनानन्तातुल फलप्रदः । ईदृशीं मौनीं गिरं श्रुत्वा तन्नियमं सुयोग्यं मन्यमानो हरिवलस्तद्व्रतं सहर्ष स्वीचक्रे ।
ततो निजात्मानं कृतार्थं मन्यमानो नदीगम्भीरजले नैजं जालं प्रसारयामास यदैव । तदानीमेव तन्नियमातुलफलप्रदर्शनायैको महान् मत्स्यो जाले समापतितः । अथ लोभसमूहं हावा जाले समागतं मत्स्यं तदानीमेव निजनियमपरिपालनाय मत्स्यगले डोरिकामेकां बद्धा जले प्रचिक्षेप | क्षेपणान्ते च स एव मीनो जाले प्रसार्यमाणे पुनरपि समापतत् । दृष्ट्दैव स धीवरो हरिलो भूयोऽपि तं जले विससर्ज । एवं यावद्वारं वारं जालोपरि जालं प्राक्षिपत् । परं तमेव मीनं विज्ञाय तत्स्थानं विहायाऽन्यत्र जालप्रसारणायोद्युक्तो बभूव । पुनरपि स एव मीनो जाले समायातः, पुनः पुनरेतादृग्दुःखमनुभवन्नपि किञ्चिन्मात्रं पश्चात्तापमनाप्नुवन् नियमं च स्वीयं दृढीकर्त्तुमातापि धैर्यमत्यजन् सन्ध्याकाले यावत्तमेवं मीनं जले सम्पातयति तावत्स मीनो मनुष्यवाचोवाच प्राय साहसिक ! साहसात्त्वयि प्रहृष्टोऽहमतो मनोऽभिलषितं मां याचस्वेति । तदीयं
For Personal & Private Use Only
Jain Education International
चरित्रम् |
।। ३० ।।
www.jainelibrary.org