SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ 38 मानसक्लेशकारणं पितरं व्याजहार। पितोवाच-वत्स ! मया त्वं छलितोऽसि न, किन्तु मनसि ममेयं शङ्कोदियाय, यदीदृशाश्वे दर्शिते सदैव तमारुह्य स्वैरं सर्वत्र परिभ्रमिष्यसि, तथा सति तव वियोगो मां बाढं बाधिष्यते। इति धियैवाद्यावधिस्त्वां तमश्वं नादर्शयम् । यदि तेन त्वं रुष्टोऽसि तर्हि तुभ्यमद्यैव तं ददामि । तमारुह्य मनो विनोदय इत्युक्त्वा कुमाराय तुरगं दत्तवान् । तदनु प्रमोदभरमानसः कुमारो द्वित्रिमित्रसंयुतस्तमश्वमारुह्य बहिरगात् । तत्रागतास्ते सर्वे स्वस्ववाहं. वेगेन धावयितुं लग्नाः रत्नसारस्तु यथा यथा वल्गामाक्रष्टुं लग्नस्तथा तथा तदश्वः प्रधावितुमैहिष्ट । तत्रावसरे वसुसारश्रेष्टिनं सदनस्थः कीरो जजल्प-स्वामिन् ! रत्नसारस्तुरगारूढो महीयसा वेगेन याति । अतो मामनुगन्तुमाज्ञापय ? येन तदनुगतोऽहं तदीयशुद्धिं कुर्याम् . विषमदेशमापन्नस्यासहायस्य तस्याहं साहाय्यं करिष्यामि । कीरोदितमाकर्ण्य हृष्टचेता वसुसारस्तमवादीत्शुक ! त्वं सम्यक् कथयसि, शीघ्रं याहि, तत्सहायी भव । इति वसुसारश्रेष्ठिन आज्ञां समवाप्य स्वात्मानं धन्यं मन्यमानः कीरस्तूर्णं पिञ्जराबहिर्भूय महता जवेन तदन्वगात् । अचिरादेव सोऽपि तेन कुमारेणामिलत् । तमागतं शुकं लघुबान्धवमिव प्रगाढस्नेहेन कुमारः स्वाङ्के समुपावेशयत् । JainEduca t ional For Personal & Private Use Only Plainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy