SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ बद्धंनसार चरित्रम्। बहुदीर्घता, पुना रोमोद्गमे-यस्य केशाः स्निग्धा-मृदवः, पुनः पश्चिमपार्श्वयोः-पश्चाद्भागयोः पीनम्-पुष्टता, पृष्ठं च यस्य पृथुतरमतिविशालं, जवे-वेगे प्रधानम्-श्रेष्ठम् , प्रशस्तैः-उत्तमैः शाव स्त्रोक्तैः समस्तैर्गुणैर्युक्तमश्वं यदि राजा आरुरोह-उपविशेत्तर्हि स तुरगस्तं नृपमेकाहेन योजनानां शतं नयेत् , वायुरिव वेगवान् सप्ताहेन सकलां पृथ्वीं परिभ्रम्य स्वस्थानमायाति ।। भोमुग्ध-रत्नसार ! ईदृशमश्वरत्नं गृहे स्थितमपि त्वां नादर्शयत् कदापि तव पिता। किमतन्न जानासि ?. गृहगतममूल्यं पित्रा गोपितं तमश्वमजानन् मयि मुधा किं कुतर्कयसि । त्वयि | वीरतां धीरतां च तदैव ज्ञास्यामि, यदा तत्रारुह्य स्वैरं पर्यटिष्यसि सर्वत्र इत्युदीर्य किन्नरो गगनवर्त्मनान्यत्र चचाल । तदाकर्ण्य मनसि भृशं खिद्यमानः रत्नकुमारः स्वसदनमागत्य कपाटं पिधाय पल्यङ्के शिश्ये ! अथैनमनागतं विलोक्य बहुधा मार्गितेऽपि तमपश्यता तत्रागत्य पित्रैवं भणितः । हे वत्स ! कथ. मकाले सुप्तोऽसि, किमस्ति कश्चित्तव व्याधिराधिर्वा ?, किं वा केनाप्यवज्ञातोऽसि ? यद्भवत्तद् ब्रूहि, अज्ञातदुःखस्य प्रतीकारं कथं कुर्यामित्यादि पित्रोक्तं श्रुत्वा कपाटमुद्घाट्य बहिराययौ कुमारः। ॥२ ॥ international For Personal Private Use Only www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy