________________
क्षीत् । तस्य शरीरं मनुष्यस्य मुखं तुरगस्येवासीत् , ईदृशमदृष्टपूर्वमश्रुतञ्च केनापि पुरा रूपं विलोक्य विस्मितः कुमारो मित्रं जजल्प । भो मित्र ! पश्यैनम् , यद्यसौ मनुष्यस्तर्हि तुरगस्येव मुखं | | कथं दृश्यते, इति नायं मनुष्यः, न वा देवः, नूनमसौ कोपि द्वीपान्तरीयस्तिर्यक् प्रतिभाति, अथवा | कस्यचिद्देवस्य वाहनेन भवितव्यम् , इति रत्नकुमारस्य वचनं श्रुत्वा किन्नर उवाच । हे रत्नसार ! ईदृशालीकं कृतकं मयि मा कृथाः । यथा मामवगच्छसि, अहं तथा नास्मि, किन्तु विलासी स्वैरविहारी व्यन्तरोऽस्मि । भो रत्नसार ! मया तु त्वमेव तिर्यकतल्यो दृश्यसे । यतः पित्रा प्रतारितोऽसि । कुमारोऽवक्-कथमहं पित्रा वञ्चितोऽस्मि, अहं नैव जानामि, त्वं जानासि चेत्कथय ? सोऽवदत्-श्रूयताम्-तव पित्रा द्वीपान्तरादेकस्तुरग आनीतः-स च ईदृशोऽस्ति-- निर्मासं मुग्वमण्डले परिमितं मध्ये लघुः कर्णयोः, स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे । पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्टं प्रधानं जवे, राजा वाजिनमारुरोह सकलैर्युक्तं प्रशस्तैर्गुणैः ॥ १ ।।
व्याख्या-मुखमण्डले यस्य कृशता, मध्ये-कुक्षिप्रदेशे परिमितम्-अल्पता, कर्णौ च यस्य । लघू स्तः, स्कन्धे बन्धुरम्-यस्य स्कन्धो वन्धुरो रम्यो दीर्घो मांसलश्च, उरसि-वक्षसि अप्रमाणम् ,
For Personal Private Use Only
Painelibrary.org