SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ चरित्रम् । यबद्ध- नसार । १॥ सर्वत्यागात्मकश्च । तत्राद्यः श्रावकाणां जायते । अन्तिमस्तु साधूनां भवति । सकलसुखसम्पा- दकौ दैशिकः सन्तोषः परिग्रहपरिमाणतयोच्यते । तदुक्तम्असन्तोषवतः सौख्यं, न शक्रस्य न चक्रिणः । जन्तोः सन्तोषभाजो, यद् भव्यस्यैव हि जायते ॥ १॥ ___ सन्तोषहीनस्य सुरेन्द्रस्य चक्रवर्त्तिनो वा सौख्यं तथा न जायते, यथा भव्यजीवस्य सन्तुष्ट. मनसो जायते । अतो वच्मि । हे भव्यात्मन् ! सुखं वाञ्छास चेत्तर्हि धनादीनां परिमाणं क्रियताम् ! अथेदृशं गुरोर्वचनमाकर्ण्य तदैव सम्यक्त्वसहितं परिग्रहपरिमाणं स व्यधात् । तथाहि-- हे स्वामिन् ! मम लक्षपरिमितानि रत्नानि, दशलक्ष दीनाराः, मुक्तावैदुर्ययोरष्टाष्ठमूढकम् । अष्टकोटयः कोशे रौप्यकाणि, षड् गोकुलानि, एकैकस्मिन् दशसहस्रगवां स्थितिः। पञ्चशतानि गृहाणि, शतानि वाहनानि । अश्वानां सहस्रम् । दन्तिनः शतानि, एतान्येव मया गृहे सदा स्थेयानि इतोऽधिकानि हेयान्येव । तथा पञ्चाऽतीचारविशुद्धं पञ्चममणुव्रतं गृह्णामि, इत्थं परिग्रहपरिमाणं कृत्वा सम्यग्धर्म परिपालयन् गार्हस्थ्यं सुखं भुञ्जानः सुखेन रत्नसार कुमारस्तस्थौ । अथान्यदा रत्नसारकुमारः सह मित्रेण वनं ययौ । तत्रेतस्ततः पर्यटन्नेकं किन्नरयुगलभद्रा ॥१॥ JainE R Hernational For Personal Private Use Only TALw.sainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy