________________
35
विश्वपूज्य-जैनाचार्य-श्रीमविजयराजेन्द्रसूरीश्वरेभ्यो नमः ।
श्रीरत्नसारकुमार-चरित्रम् ।
राजेन्द्रसूरीश्वरसद्गुरूणां, पादारविन्दं युगलं प्रणम्य ।
तदूरत्नसारस्य चरित्रमेतत्, कुर्वे सुगद्यैः सरलैः सुरम्यम् ॥ १॥ इह भरतक्षेत्रे रत्नविशालाभिधाना महीयसी नगरी वर्तते । तत्र समरसिंहनामा राजा महीमशेषां शास्ति, तत्रैव महापुरे वसुसार, नामा श्रेष्ठी निवसति, अस्य रत्नसारनामा पुत्रोस्ति । स चैकदा मित्रेण सह वनमागात् । तत्र वने महान्तं भास्वन्तमिव महसाज्वलन्तं विनयधराभिधानमाचार्यमालोक्य समित्रो रत्नसार-कमार स्तत्रागत्य परयाभक्त्या यथाविधि नमस्कृत्य । | त्रिःप्रदक्षिणां विधाय च तदभिमुखमुपाविशत् । अथ कृताञ्जलिः स तमेवमप्राक्षीत् । हे भगवन् !
केनोपायेन जीवोऽसौ सुखमुपैति ? सकलानि दुःखानि च विजहाति?, गुरव ऊचुः हे भद्र ! एष | जीव इह लोके परलोके च केवलमेकन सन्तोषेण परमं सुखमाप्नोति । स च द्विधास्ति । दैशिक:
JanEducatio
n
al
Foal Peny