SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 35 विश्वपूज्य-जैनाचार्य-श्रीमविजयराजेन्द्रसूरीश्वरेभ्यो नमः । श्रीरत्नसारकुमार-चरित्रम् । राजेन्द्रसूरीश्वरसद्गुरूणां, पादारविन्दं युगलं प्रणम्य । तदूरत्नसारस्य चरित्रमेतत्, कुर्वे सुगद्यैः सरलैः सुरम्यम् ॥ १॥ इह भरतक्षेत्रे रत्नविशालाभिधाना महीयसी नगरी वर्तते । तत्र समरसिंहनामा राजा महीमशेषां शास्ति, तत्रैव महापुरे वसुसार, नामा श्रेष्ठी निवसति, अस्य रत्नसारनामा पुत्रोस्ति । स चैकदा मित्रेण सह वनमागात् । तत्र वने महान्तं भास्वन्तमिव महसाज्वलन्तं विनयधराभिधानमाचार्यमालोक्य समित्रो रत्नसार-कमार स्तत्रागत्य परयाभक्त्या यथाविधि नमस्कृत्य । | त्रिःप्रदक्षिणां विधाय च तदभिमुखमुपाविशत् । अथ कृताञ्जलिः स तमेवमप्राक्षीत् । हे भगवन् ! केनोपायेन जीवोऽसौ सुखमुपैति ? सकलानि दुःखानि च विजहाति?, गुरव ऊचुः हे भद्र ! एष | जीव इह लोके परलोके च केवलमेकन सन्तोषेण परमं सुखमाप्नोति । स च द्विधास्ति । दैशिक: JanEducatio n al Foal Peny
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy