________________
बर्द्धनसार
चरित्रम् ।
340 अन्ये च मित्राणि रत्नसारमतिदूरङ्गतमपश्यन्तः पश्चादलिताः स्वस्वसदनमागुः । इतश्च कीरेण सह रत्नसार एकस्यामरण्यान्यामाययौ। तत्रैकस्मिन् वृक्षे महादोलायामुपविष्टोऽसीमानन्दमनुभवन् देवकुमाराकारः कश्चिदेकस्तापसस्तेन दृष्टः । तत्रावसरे स कुमारस्तमात्मीयमित्रमिव सस्नेहं द्रष्टुं लग्नः । सोऽपि मदनमूर्तिमिव मनोहरं रत्नसारं सादरमवलोकयन् दध्यौ-अहो ! कोऽयमद्यप्रापूर्णिकोऽत्रागत इत्यवधार्य रोलातोऽवतीर्य कुमारान्तिकमेत्य तमेवमवादीत् सः। भोः कुमार ! कस्ते जनपदः ?, कस्मिन्नगरे निवससि ?, कस्मिंश्च वंशे त्वमुत्पन्नोऽसि ?, का ते जातिः?, माता पित्रोरभिधानं किमस्ति ?, कस्ते कुटुम्बः ?, का च ते शुभाभिधा ? कथमत्रैकाकी | समागतोऽसि ?. इतस्ततः परिभ्रमन् किं शोधयसि ?, इत्थं सप्रेमातिमधुरं तापलोदितं निशम्य कुमारो नितरां जहर्ष । रत्नसारस्तत्कालमेव यावत् प्रत्युत्तरं दातुं चिकीर्षति, तावन्निसर्गचपलः | शुकस्तापसमवोचत-भोस्तापस ! तवेदानीमतदीयकुलवंशादिज्ञानेन किं प्रयोजनम् ?, किमत्र कस्यचित्पाणिपीडनं चिकीर्षसि ?, त्वमधुना कामपि पृच्छां विनैवाऽऽतिथ्यं विधेहि । यतोऽतिथिः साधूनामपि पूजनीयो भवति । उक्तञ्चान्यमते
॥३
॥
hternational 14.1
For Personal & Private Use Only
I
ww.ainelibrary.org