SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 4041 गुरुरग्निर्द्विजातीनां, वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां, सर्वस्याभ्यागतो गुरुः ॥ १॥ शुकोदितादीदृशवचनाच्चमत्कृतस्तापसो नितरां प्रससाद । तत एकां पुष्पमालां कीरशिरसि समर्पितवान् । तत्पश्चादेवमगादीत्-भोः कुमार ! त्वं श्लाघ्योऽसि, यदीदृशः पटुतरः शुकस्ते सहत्तमोऽस्ति । अये कुमार ! मम प्राघूर्णिको भव यद्यपि मादृशां तापसानां भवादृश योग्या कापि सामग्री नास्ति । तथापि यथा लब्धोपचारेणार्चनं करोमि, तदवश्यमेवाङ्गीकार्य भवादृशेन सुहृत्तमेन । इत्थं मिष्टवाक्येन रत्नसारं सन्तोषयन्. रम्यं वनं दर्शयन्, फलपुष्पादिभिमनोहराणां नानाजातीयानां लतानां तरूणां च नामानि कथयन् . स तापसोऽवोचत-भो महाभाग्य ! एतस्मिंस्तटाके स्नाहि। ततो रत्नसारः स्नातानुलिप्तः कृतनित्यक्रियो यावदासीत्तावन् । नानाविधानि परिपक्वानि सुस्वादुफलानि समानीय रत्नसारस्य पुरः समर्पयत्तापसः। अमृतस्वादुभरां भूयसी परिपक्वां द्राक्षाम् , रसालान् मिष्टतरान् , कदलीफलानि परिपक्वानि, पक्वान् पनसान् , , नारिकेर-खजूर-जम्बू-बीजपूर-दाडिमप्रमुखान् तापसप्रदत्तान् शुकेन सह कुमारो यथारुचि बुभुजे। ततस्तस्मै मुखवासाय लवङ्गलाकर्पूरजयपत्रिकादिसुरभिद्रव्याणि नागवल्लीं च ददौ । घोटक Jain Educa For Personal & Private Use Only W inelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy