SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ बर्द्ध नसार ४ ॥ 42 मपि तदुचितभक्ष्यमभोजयत् । सर्वे पानाशनादिना तोषितास्तेन । ततः सुखोपविष्टास्त्रयः परस्परमालपितुं प्रवृत्ताः । अत्रान्तरे कुमारकृतसङ्केतः कीरस्तमवादीत् - भोस्तापस ! त्वयाऽनवसरे यौवनावस्थायामतिदुर्वहतापसत्वं कथं जगृहे ?, तावकं वपुरतिसुन्दरं दृश्यते. ईदृशेन वपुषा तपश्चरणं न घटते, नूनमीदृग् शरीरेण शमीलताच्छेदनमिव तपष्करणं मन्ये । महाभाग ! त्वदीयमिदं सौजन्यं, चातुर्यकला च वने मालतीव मुधा जायते । तवेदं वपुर्दिव्याम्बरेण रत्नाभरणेन च शोभां धातुमर्हति । प्रतिस्निग्धा मृदवो भ्रमरवच्छयामलास्तेऽमी केशा जटाकलापेन शोभां नो दधते । तारुण्यलावण्य सम्पन्नो भवान् सांसारिकामन्दानन्दमेवानुभवितुमर्हतीदानीं, किमिदं वैराग्यतो दैवयोगतः कस्यचिद्विषयविमुखस्य तापसस्य वशतो वा भवताऽधारि ? शनि कीरगदितानि वचनानि श्रुत्वा वारिपूर्णलोचनस्तापसः सगद्गदं जगाद्-भोः शुकराज ! त्वादृशोऽपरः कोऽपि जगति नैवास्ति यतः मां पश्यतोर्भवतोरीदृशीकरुणा प्रादुरभूत् । इह लोके स्वकीयदुःखेन दुःखिनस्तु सर्वे भवन्त्येव, परन्तु परेषां दुःखानि पश्यन्तः कियन्त एव लसन्ति सन्तः सदुःखाः । यदुक्तं नयविदा International For Personal & Private Use Only चरित्रम् | ॥ ४ ॥ www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy