________________
43 शूराः सन्ति सहस्रशः प्रतिपदं विद्याविदोऽनेकशः, सन्ति श्रीपतयोऽप्यपास्तधनदास्तेऽपि क्षिती भूरिशः। किन्त्वाकर्ण्य निरीक्ष्य चान्यमनुजं दुःखादितं यन्मन-स्ताप्यं प्रतिपद्यते जगति ते सत्पूरुषाः पञ्चषाः॥१॥ ||
व्याख्या--प्रतिपद-पदे पदे सहस्रशः-सहस्राणि शूराः-शौर्यवन्तः पुमांसः सन्ति-वर्तन्ते, तथा अनेकशः-अनेके विद्याविदः-विद्यां विदन्ति जानन्तीति विद्याविदः पण्डिताः । एवं अपास्तधनदाः-अपास्तो विजितो धनदः कुबेरो यैस्ते कुबेरतोऽप्यधिकधनवन्तः श्रीपतयः-लक्ष्मीस्वामिनः पुरुषा अपि क्षितौ-पृथ्व्यां भूरिशः-बहवः सन्ति, किन्तु दुःखार्दितम्-दुःखैः पीडितम् अन्यमनुष्यम् , आकर्ण्य-श्रुत्वा निरीक्ष्य-अवलोक्य यन्मनः येषां मनश्चेतः ताद्रूप्यम्-तदाकारताम् प्रतिपद्यते-प्राप्नोति ते तादृशाः सत्पुरुषाः-सज्जनाः-परोपकारिणः जगति-लोके पञ्चषाः-पञ्च षडेव सन्तीति भावः।
मित्र ! यथाजातमात्मचरित्रमशेषं त्वां वक्ष्यामि । त्वादृशमहापुरुषाणामग्रे किमपि गोप्यं नैवास्ति, एवं मिथ आलपत्सु कुमार-तापसकीरेषु-यदभूदाश्चर्यकारिवृत्तं तदाकर्ण्यताम् । तत्रैवा| वसरे गर्जन्ती परितो रजांसि समुच्छलयन्ती, सर्वमन्धकारमयं कुर्वती, काचिदेका, महावात्या समु
Jain Eduo
For Personal & Private Use Only
hinelibrary.org