SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ____ बद्धंनसार चरित्रम् । त्तस्थे । सा च पश्यतोरेव तयोरत्नसारकरियोस्तापसमपहृतवती । ह्रियमाणस्तापस उच्चैरेवं पूच्चक्रे-भो रत्नसार ! मामनाथं रक्ष रक्ष, विलम्ब मा कृथाः । अथैतदाकर्णयन् कुमार आह-रे दुष्ट ! पापिष्ठ ! प्राणादपि प्रियतरमेनं मित्रमपहृत्य व व्रजसि ?, तिष्ठ तिष्ठ । मित्ररत्नमिदं चोरयित्वा क्क यासीत्यादि क्रुधा जल्पन् तत्पृष्ठमधावत् । कियद् दुरङ्गतो रत्नसारस्तापसमपश्यन् कीरेण भणितः-भो रत्नसार ! क्वापि स तापसस्तदपहर्ता वा न दृश्यते । कोजानाति सा वात्या तं तापसं कियदरं नीतवतीति । इयता कालेन वेगवान् वायुस्तं योजनानां लक्षं निनायेति तर्कयामि । अत इदानीं पश्चाद्वलितव्यमेव श्रेयस्करं प्रतिभाति । शुकोकं तथ्यं वचः श्रुत्वा स कुमारः पश्चाद् वलन् मार्गे भृशं शुशोच । अत्रावसरे कीरस्तमेवंकथितुं लग्नः-अये कुमार ! स d तापसः पुमान्नास्ति, किन्तु केनापि प्रतिकूलेन पुंसा विद्यावलेन कापि कामिनी पुरुषीकृतास्ति । मधुरालापेन मुखाकृत्या मन्दगत्यादिना च तां काञ्चिदबलामवेहि । देवदानवविद्याधराणामन्यतमः कोऽपि तां मृदङ्गीमतिरूपलावण्यवती कामपि कुमारी वशीकर्तुमेवं विडम्बयति । यदि सा तस्य दुष्टपुंसः कराच्छुटिष्यति, तर्हि त्वामेव वरिष्यति । अत्र किमपि संशयं मा कृथाः । इत्थं मधुरा ॥ ५ ॥ For Personal Private Use Only Jw.dainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy