________________
लापमाकर्ण्य स्वेष्टदेवमिव तापसकुमारं स्मरन् रत्नसारः कीरेणसाकं जनाचचाल । अथ कियद् दूरं गतः कुमारः एकस्मिन् मनोरमे वने नानातरुलतादिनासुमण्डिते अत्युच्चैस्तोरणध्वजा दिभिः सुशोभितं श्रीमदादिनाथभगवतो मन्दिरमद्राक्षीत् । तत्रागत्य कुमारस्तुरगान्नीचैरवातरत् । फलपुष्पादिकं करे निधाय सकीरः कुमारो मन्दिरान्तः प्रविश्य भगवतः पूजां परया भक्त्या विधाय स्तोतुं लग्नः। सिरिनाभिनामकुलगरकुलकमलुल्लासणेगदिवसवई ! भवदुहलक्वविहंडण! जयमंडण णाह ! तुज्झ णमो।
व्याख्या-श्रीनाभिनामाकुलकरभूपस्तस्य कुलकमलोल्लासने सूर्यसमान :, भवदुःखलक्षविखण्डन-सांसारिकलक्षक्लेशप्रणाशक !, जयमण्डन ! हे नाथ ! तुभ्यं नमोऽस्तु।। __इत्याद्यनेकविधस्तवेनप्रभुमादिनाथमभिष्ट्रय रत्नसारो मन्दिरस्याद्भुततमां शोभां सर्वतो विलोक्य क्वचिदेकत्र वहिःप्रदेशे समुपाविशत् । तत्राह-शुकम्प्रति । हे शुकराज ! इयता काले नापि तापसकुमारस्य समाचारो न लभ्यते, को जानाति व नीतवान् दुष्टः स इति । इत्थं विलापं कुर्वन्तं रत्नसारमाह कीरः । भोः कुमार ! मनसि धैर्यमाधेहि, खेदं मा कुरु । अद्यैव ते
Sain Educ
a
tional
For Personal Private Use Only
ainelibrary.org