SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ लापमाकर्ण्य स्वेष्टदेवमिव तापसकुमारं स्मरन् रत्नसारः कीरेणसाकं जनाचचाल । अथ कियद् दूरं गतः कुमारः एकस्मिन् मनोरमे वने नानातरुलतादिनासुमण्डिते अत्युच्चैस्तोरणध्वजा दिभिः सुशोभितं श्रीमदादिनाथभगवतो मन्दिरमद्राक्षीत् । तत्रागत्य कुमारस्तुरगान्नीचैरवातरत् । फलपुष्पादिकं करे निधाय सकीरः कुमारो मन्दिरान्तः प्रविश्य भगवतः पूजां परया भक्त्या विधाय स्तोतुं लग्नः। सिरिनाभिनामकुलगरकुलकमलुल्लासणेगदिवसवई ! भवदुहलक्वविहंडण! जयमंडण णाह ! तुज्झ णमो। व्याख्या-श्रीनाभिनामाकुलकरभूपस्तस्य कुलकमलोल्लासने सूर्यसमान :, भवदुःखलक्षविखण्डन-सांसारिकलक्षक्लेशप्रणाशक !, जयमण्डन ! हे नाथ ! तुभ्यं नमोऽस्तु।। __इत्याद्यनेकविधस्तवेनप्रभुमादिनाथमभिष्ट्रय रत्नसारो मन्दिरस्याद्भुततमां शोभां सर्वतो विलोक्य क्वचिदेकत्र वहिःप्रदेशे समुपाविशत् । तत्राह-शुकम्प्रति । हे शुकराज ! इयता काले नापि तापसकुमारस्य समाचारो न लभ्यते, को जानाति व नीतवान् दुष्टः स इति । इत्थं विलापं कुर्वन्तं रत्नसारमाह कीरः । भोः कुमार ! मनसि धैर्यमाधेहि, खेदं मा कुरु । अद्यैव ते Sain Educ a tional For Personal Private Use Only ainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy