SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ चरित्रम् । ननार ६॥ बर्द्ध-12 सोऽवश्यं मिलिष्यतीति । इत्थं शुकेन साकं यावदालपति-कुमारस्तावद् दिव्याङ्गना लोकोत्तरया | निजासीमसौन्दर्यलक्ष्म्या देवाङ्गनामपि त्रपयन्ती, सर्वाभरणतनुतरवसनधारणेन महतीं सुषमामधिगच्छन्ती, मयूरारूढा तत्रागात् । मलयगिरिजातसुरभिशीतलचन्दनकुसुमाक्षतादिसकलपूजोपकरणमादाय जिनवरेन्द्र परया भक्त्यापूजयामास। यथामति संस्तूय प्रभोरग्रे नर्त्तितुं लग्ना। तस्यातीवसुन्दरतमं संगीतमयं नृत्यं समवलोक्य सकीरः कुमारश्चेतसि भूयसी चमत्कृति प्राप्त- 1 वान् । सा कन्यापि मूर्तिमन्तं मदनमिव कुमारं सादरं चिरं प्रेक्षाञ्चके । तत्रावसरे रत्नसारस्ता. मपृच्छत् । यदि तव मनसि रोषो नोत्पद्येत। तर्हि त्वां किमपि पृच्छेयम् । तयोक्तम्-सुखेन । पृच्छतु भवान् । कुमार आह अयि सुन्दरि ! त्वं कासि ?. कुत आगतासि ?, कस्य कुले जातासि ? इत्यादि भवत्या आमूलमुदन्तं श्रोतुमिच्छा वर्तते । ततः कन्यकोवाच-भोः कुमार ! यत्पृष्टं तत्कथयामि सर्वमात्मवृत्तं सावधानमनसा निशम्यताम् । तथाहि___ कनकपुरे वरनगरे कनकध्वजो नाम नीतिपूर्णकुशलो राजाऽस्ति । तस्य कुसुमश्रीराज्ञी in Edu c ational For Personal & Private Use Only Rew.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy