________________
चरित्रम् ।
ननार
६॥
बर्द्ध-12 सोऽवश्यं मिलिष्यतीति । इत्थं शुकेन साकं यावदालपति-कुमारस्तावद् दिव्याङ्गना लोकोत्तरया
| निजासीमसौन्दर्यलक्ष्म्या देवाङ्गनामपि त्रपयन्ती, सर्वाभरणतनुतरवसनधारणेन महतीं सुषमामधिगच्छन्ती, मयूरारूढा तत्रागात् । मलयगिरिजातसुरभिशीतलचन्दनकुसुमाक्षतादिसकलपूजोपकरणमादाय जिनवरेन्द्र परया भक्त्यापूजयामास। यथामति संस्तूय प्रभोरग्रे नर्त्तितुं लग्ना। तस्यातीवसुन्दरतमं संगीतमयं नृत्यं समवलोक्य सकीरः कुमारश्चेतसि भूयसी चमत्कृति प्राप्त- 1 वान् । सा कन्यापि मूर्तिमन्तं मदनमिव कुमारं सादरं चिरं प्रेक्षाञ्चके । तत्रावसरे रत्नसारस्ता. मपृच्छत् । यदि तव मनसि रोषो नोत्पद्येत। तर्हि त्वां किमपि पृच्छेयम् । तयोक्तम्-सुखेन । पृच्छतु भवान् । कुमार आह
अयि सुन्दरि ! त्वं कासि ?. कुत आगतासि ?, कस्य कुले जातासि ? इत्यादि भवत्या आमूलमुदन्तं श्रोतुमिच्छा वर्तते । ततः कन्यकोवाच-भोः कुमार ! यत्पृष्टं तत्कथयामि सर्वमात्मवृत्तं सावधानमनसा निशम्यताम् । तथाहि___ कनकपुरे वरनगरे कनकध्वजो नाम नीतिपूर्णकुशलो राजाऽस्ति । तस्य कुसुमश्रीराज्ञी
in Edu
c
ational
For Personal & Private Use Only
Rew.jainelibrary.org