SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Jain Educa 44 सुशीलत्वादिसर्वगुणसम्पन्नास्ति । अथैकस्यां रजन्यां सुखेन सुप्ता राज्ञी निजोत्सङ्गे पतन्त्य कुसुममालेऽपश्यत्स्वप्ने, स्वप्नमालोक्य सा जागृताऽभूत् । प्रभाते नृपान्तिके समागत्य निशिदृष्टस्य स्वप्नस्य फलमप्राक्षीत्। राजोवाच- प्रिये ! ईदृशस्वप्नेन त्वमेकदा पुत्रीयुगलं प्रसविष्यसे । तच्छ्रुत्वा मनसिहृष्यत्सा, तदनु धृतगर्भाराज्ञी नवमासेषु गतेषु सहैव कन्यकायुगलमजीजनत् । महता मन द्वादशेऽहनि प्रथमाया अशोकमञ्जरी, द्वितीयस्यास्तिलकमञ्जरीति पित्रा नाम चक्रे । ततः पञ्चधात्रीभिर्लालिते पालिते ते कन्ये क्रमेण ववृधाते । लघुवयस्येव ते सर्वासु विद्यासु चतुष्षष्टिकलासु च निपुणे बभूवतुः । क्रमशः सञ्जाततारुण्ये ते सौभाग्येन, लावण्येन, वपुः सौन्दर्येण, सकलशास्त्र नैपुण्येन च युवकजनानां चित्ते चमत्कृतिं तेनाते । तयोः परस्परं महान् स्नेह आसीत् । एकस्या वियोगमपरा चणमपि न सहते, सर्वं कार्यं सहैव कुर्वाते । तदाह- सहजग्गिएण सह सोविएण सह हरिससोअवंताएं । नयनाएं व धन्नाणं, आजम्ममकित्तिमं पिम्मं ॥ १ ॥ व्याख्या–सह जागरणशीलानां, सह स्वापिनां सह हर्षशोकवतां धन्यानां पुण्यवतां जीवानां नयनानीवाऽऽजन्म - यावज्जीवम्, अकृत्रिमं - नैसर्गिकम् प्रेम-स्नेहो जायते । For Personal & Priva ainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy