SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ द्धि सार 911 48 तयोरीदृशीं प्रीतिमालोक्य राजा मनसि दध्यौ - अहो ! कीदृशी प्रीतिरेतयोः । यत्कदापि क्षणमपि परस्परं विरहं सोढुं नैव शक्नुवाते । यथेक एवैतयोर्भर्त्ता भवेत्तर्हि वरं स्यात् । अन्यथा मिथो विश्लेषमसहमाने द्वेऽपि नूनं मरिष्यतः । एतयोर्मनोनुकूलः सकलसद्गुणशाली सुकृतमाली कोऽपि कुलवान् धन्यः परमभाग्यशाली पुमानेव वरो भवितव्यो नान्य इत्यादि चिन्तयन्नासीत्क्षोणीपालः । उक्तञ्च- जातेति पूर्वं महतीति चिन्ता, कस्मै प्रदेयेति ततः प्रवृद्धा । दत्ता सुखं यास्यति वा नवेति, कन्या पितृत्वं किल हन्त कष्टम् ॥ १ ॥ व्याख्या - पूर्वम् - आदौ मम कन्या जाता - समुत्पन्ना इत्येवं महती चिन्ता पितुर्जायते । ततः - तदनन्तरं प्रवृद्धा - वर्द्धितायां तस्यां कस्मै - वराय योग्याय प्रदेया कन्येयमिति । अर्थात् सद्योग्यपति शुद्धयर्थं महती चिन्तोत्पद्यते । पुनः कस्मैचित् योग्यपुंसे दत्तापि कन्या सुखं यास्यति नवेति तृतीया चिन्ता जायते । इतीत्थं लोके हन्तेति खेदे किलेति निश्चयेन कन्या, पितृत्वं कष्टम् - कष्टकारीति भावः । ternational For Personal & Private Use Only चरित्रम् । 119 11 www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy