________________
अथैकदा वसन्ततॊ ते द्वे भगिन्यौ क्रीडितुमाराममाजग्मतुः । तत्रैकस्य महतस्तरोः शाखायां सुदृढां डोरिकां बध्वाऽऽन्दोलनं कर्तुं प्रवृत्ताऽशोकमञ्जरी, तथा विदधतीं तां तिलकमञ्जरी महता जवेन झूलयामास । तयोस्तदद्भुतं क्रीडनं द्रष्टुं पौरा भूयांसस्तत्राययुः । तत्रैवावसरे कश्चिद्विद्याधरो लोकैरलक्षितस्तामुत्पाट्य हृतवान् । अथ साऽशोकमञ्जरी महता स्वरेण रुदती भो भो । लोकाः! धावत धावत, मामपहृत्य कोऽप्यसौ यातीति चुक्रोश । ततः सर्वे लोकास्तत्पृष्टमधावन्त। | परमेतेषां पश्यतामेव स विद्याधरस्तां कुत्र नीतवानिति केऽपि न जज्ञिरे । अतिप्रीतिपात्रपुत्रीहरणश्रवणतोऽतिदुःखितो भूजानिस्तत्कालमेव कियतोऽश्ववारान् सुभटांस्तस्याः शुद्ध्यै प्रेषितवान् । केनापि क्वापि सर्वत्र गिरिकन्दरादौ बहुधा मार्गणे कृतेऽपि शुद्धिर्न लेभे । इतश्च तिलकमञ्जरी प्राणतोपि वल्लभाया भगिन्या हरणेन तत्कालमेव मूर्छामाप, ततो भूमौ पपात । सचन्दनातिशीतलजलसेकादिना प्राप्तचैतन्या सा भृशं विलपितुं लग्ना । तथाहि
___ अयि भगिनि ! त्वामपश्यन्ती कथं जीविष्यामि हा देव ! कथमकाल एव प्राणप्रियभगिनीd वियोगोऽकारि । इत्थं भृशं शोचन्ती तिलकमञ्जरी संध्यासमये गृहमागतवती । अन्येऽपि पौरा
For Personal Private Use Only