SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ अथैकदा वसन्ततॊ ते द्वे भगिन्यौ क्रीडितुमाराममाजग्मतुः । तत्रैकस्य महतस्तरोः शाखायां सुदृढां डोरिकां बध्वाऽऽन्दोलनं कर्तुं प्रवृत्ताऽशोकमञ्जरी, तथा विदधतीं तां तिलकमञ्जरी महता जवेन झूलयामास । तयोस्तदद्भुतं क्रीडनं द्रष्टुं पौरा भूयांसस्तत्राययुः । तत्रैवावसरे कश्चिद्विद्याधरो लोकैरलक्षितस्तामुत्पाट्य हृतवान् । अथ साऽशोकमञ्जरी महता स्वरेण रुदती भो भो । लोकाः! धावत धावत, मामपहृत्य कोऽप्यसौ यातीति चुक्रोश । ततः सर्वे लोकास्तत्पृष्टमधावन्त। | परमेतेषां पश्यतामेव स विद्याधरस्तां कुत्र नीतवानिति केऽपि न जज्ञिरे । अतिप्रीतिपात्रपुत्रीहरणश्रवणतोऽतिदुःखितो भूजानिस्तत्कालमेव कियतोऽश्ववारान् सुभटांस्तस्याः शुद्ध्यै प्रेषितवान् । केनापि क्वापि सर्वत्र गिरिकन्दरादौ बहुधा मार्गणे कृतेऽपि शुद्धिर्न लेभे । इतश्च तिलकमञ्जरी प्राणतोपि वल्लभाया भगिन्या हरणेन तत्कालमेव मूर्छामाप, ततो भूमौ पपात । सचन्दनातिशीतलजलसेकादिना प्राप्तचैतन्या सा भृशं विलपितुं लग्ना । तथाहि ___ अयि भगिनि ! त्वामपश्यन्ती कथं जीविष्यामि हा देव ! कथमकाल एव प्राणप्रियभगिनीd वियोगोऽकारि । इत्थं भृशं शोचन्ती तिलकमञ्जरी संध्यासमये गृहमागतवती । अन्येऽपि पौरा For Personal Private Use Only
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy