SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ 130 चरित्रम् । १३॥ बिद्ध प्रसन्नमना भक्तादियोग्यनिर्दोषमाहारं तस्मा अदात् , ततो मुनीन्द्रे तल्लात्वा निर्गते मेषादीनां । टकुमार यम इव महानष्टमीमहः समायातः । तस्मिन्महामहे सर्वे लोका बालेयान्महिषान् छागांश्च बहून् । क्षिप्रापूपानिव प्रगुणयामासुः । तदनु पुत्रसामन्तसेनानीपरिवृतः सन्नद्धभटसेनाङ्गः क्षितिपतिस्तत्रराजवाट्यां विनिर्ययौ । तत्रागत्य गोत्रेश्वरीं नमस्कृत्यं तां यथामति संस्तुत्य महद्भिपचारैरभ्यर्च्य || तस्यै बलिं दातुं कुमारमादिशद्राजा। तदा ते सर्वे कुमारा निर्दयहृदया धृताऽसयो यमसुता इव चेष्टमानाः स्पर्द्धया गजभञ्जनकुमारं बभाषिरे-कुमार ! येन त्वया मृगपतिनेव पुरा दन्तिनां कुम्भोऽभञ्जि, भुजाबल ! तदिदानीं सकललोकसमक्षं प्रत्यक्षं दर्शय, अमुष्मिन् महिषे प्रहरतु || भवान् निशितासिमेनमरम् , यत्कस्य प्रहारादेष कुष्माण्डमिव झटिति द्विधा भवतीति लोकाः पश्येयुः। तदाकर्ण्य सोऽजल्पत्-अये कुमाराः! युष्माकमिव मामिकामतिरन्याये नोत्सहते प्रवर्तितुमनागपि, कथं तर्हि निर्मन्तूनेताञ्जन्तून् हन्यामहम् । किञ्च नूनमेतत्प्राणिघातनं कैश्चित्प्राक्तनैरऔधूर्ततरैः प्रावर्ति, जगदम्बा तु साक्षादानन्दरूपा शुद्धसत्त्वस्वरूपैषा वेदे निगदितास्ति, अनारतमेषा चराऽचरमिदं सर्वं रिरक्षत्येव, जात्वपि जीवमेनं जननीपुत्रमिव सा त्रिभुवनजननी नो PAN ॥७३॥ Sain Edl m ational For Personal Private Use Only Tww.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy