________________
130
चरित्रम् ।
१३॥
बिद्ध
प्रसन्नमना भक्तादियोग्यनिर्दोषमाहारं तस्मा अदात् , ततो मुनीन्द्रे तल्लात्वा निर्गते मेषादीनां । टकुमार यम इव महानष्टमीमहः समायातः । तस्मिन्महामहे सर्वे लोका बालेयान्महिषान् छागांश्च बहून् ।
क्षिप्रापूपानिव प्रगुणयामासुः । तदनु पुत्रसामन्तसेनानीपरिवृतः सन्नद्धभटसेनाङ्गः क्षितिपतिस्तत्रराजवाट्यां विनिर्ययौ । तत्रागत्य गोत्रेश्वरीं नमस्कृत्यं तां यथामति संस्तुत्य महद्भिपचारैरभ्यर्च्य || तस्यै बलिं दातुं कुमारमादिशद्राजा। तदा ते सर्वे कुमारा निर्दयहृदया धृताऽसयो यमसुता इव चेष्टमानाः स्पर्द्धया गजभञ्जनकुमारं बभाषिरे-कुमार ! येन त्वया मृगपतिनेव पुरा दन्तिनां
कुम्भोऽभञ्जि, भुजाबल ! तदिदानीं सकललोकसमक्षं प्रत्यक्षं दर्शय, अमुष्मिन् महिषे प्रहरतु || भवान् निशितासिमेनमरम् , यत्कस्य प्रहारादेष कुष्माण्डमिव झटिति द्विधा भवतीति लोकाः
पश्येयुः। तदाकर्ण्य सोऽजल्पत्-अये कुमाराः! युष्माकमिव मामिकामतिरन्याये नोत्सहते प्रवर्तितुमनागपि, कथं तर्हि निर्मन्तूनेताञ्जन्तून् हन्यामहम् । किञ्च नूनमेतत्प्राणिघातनं कैश्चित्प्राक्तनैरऔधूर्ततरैः प्रावर्ति, जगदम्बा तु साक्षादानन्दरूपा शुद्धसत्त्वस्वरूपैषा वेदे निगदितास्ति, अनारतमेषा चराऽचरमिदं सर्वं रिरक्षत्येव, जात्वपि जीवमेनं जननीपुत्रमिव सा त्रिभुवनजननी नो
PAN
॥७३॥
Sain Edl
m
ational
For Personal Private Use Only
Tww.jainelibrary.org