________________
131
जिघांसति, अतो जीवहिंसात्मकं सावधं बलिं विहाय तस्य क्षिप्राऽपूपाद्यैरेव बलिर्दीयताम् , इति | कुमारोक्तमाकर्ण्य तदन्ये न्यगादिषुः । कुमार ! एवं मावादीः । यथा लोके धेन्वर्थे तृणानि लुनतां ब्राह्मणानां दोषो न लगति, तथा देवीप्रीत्यर्थं महिषादीनिमान् पशून् घ्नतामस्माकमपि दोषो नैव लगिष्यति, किञ्च-यथा वणिजां कृते शस्यानि, तिरश्चां कृते तृणादीनि, विहितवान् विधिस्तथाऽस्मदर्थमेतान् महिषच्छागादीन् पशून् विदधे प्रजापतिरिति हेतोरेतेषां बलिदाने मनागपि दोषो न लगति। त्वमशङ्कमनाः प्रहर ? इत्थमसमञ्जसमन्योऽन्यं जल्पन्तस्ते दुरात्मानः कुक्कुराः शूकरमिव तमेकं विलक्षीकृतवन्तः। तदा पित्रादिमान्यजनैः प्रोत्साहितः कुमारः कृपाणमुद्यम्य तद्वधात् पुनः करुणोलासिचेता जवान्यवर्तत, एवं पित्राद्यैः पौनःपुन्येन हिंसां कार्यमाणोऽपि त्रिरुद्यम्याप्यसिं परमेकशोऽपि स तस्मिन् नैव प्राहरत। किन्तु-मुहुर्मुहुः पापकारिणमात्मानं धिग् धिगिति निनिन्दतमाम् । यतो-गृहीताऽभिग्रहोऽप्यहं प्रहारोद्यतोऽभवम् । उवाच चैवम्-हन्त ! एतदकृत्याचारादग्नौ प्रवेश एव श्रेयान् , अथवा विशुद्धचेतसां पुंसां यन्त्रनिपीडनेन मरणमपि वरं, न पुनर्ग्रहीतव्रतत्याग इति। | इत्थं पश्चात्तापयतस्तस्य कुमारस्योपरि तुष्टा सैव देवी कृपालुत्वात्तदैव पुण्यकणानीव मनोरमाणि
APITAL
Jain Educati
For Personal & Private Use Only
dinelibrary.org