SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ 189 सागरोऽपि पुरैकदा धृतं दुर्वहं वोढुमशक्यं वाडवाग्निमद्यापि वहत्येव, अतः-सुकृतिनो महान्तो जना अङ्गीकृतं परिपालयन्त्येव, जात्वपि न जहतितमाम् । इति मुनेर्वाचमाकलय्य कुमारः स्माह-मुने ! प्राणं सुखेन त्यक्ष्यामि परममुं गृहीतं धर्म कदापि नैव हास्यामि. यथाकश्चिद्भव्यात्मा गर्तादौ पतन्तमालम्बं प्रदाय समुद्धरति, तद्वदधुना संसारकूपे पतन्नहं धर्मात्मकं दृढतरमालम्बं दत्त्वा त्वया कृपयोद्धृतोऽस्मि। किञ्च मामिदानीमधर्मादेतस्मान्निवर्त्य शाश्वतसुखप्रदे न्याय्ये धर्मपथे न्ययुङ्क्त भवानिति महानुपकारस्ते मया मन्यते। किञ्च-यदपेक्ष्यते तत्कथय, मामनुकम्पय, महत्तं किमपि सम्प्रति गृह्यताम् , क्षम्यतां च 2 मामको मन्तुरित्यादि प्रार्थयन्तं विनीतं राजपुत्रं स मुनिरभाषिष्ट-भोः कुमार ! साम्प्रतं निवृत्ताऽ- शेषकामस्य परब्रह्मैकचेतसो मम किमपि नापेक्ष्यते, त्वं याहि, धर्म पालय, राज्यं शाधि, इति । ___अथेनिरीहत्वादिगुणैस्तदीयैर्लोकाऽतीतैस्तपोभिश्च रञ्जितो राजपुत्रस्तं प्रणम्य निजगृहमाययौ । अथ वर्धमानमनोरङ्गस्तनूज बल्लभमिवाऽनारतं जीवानुकम्पात्मकं धर्ममवन् स कुमारः सुखेन तत्राऽऽस्तेस्म । अथैकदा मासक्षपणपारणायायान्तं तं मुनिमालोक्यं नत्वाऽऽत्मसदनमानीय Sain Educ a tional For Personal Private Use Only nelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy