________________
18 सविषादा सा राज्ञो दुरभिप्रायं विज्ञाय स्वीयं भर्तारं हरिबलं संबोधयामास-प्रियप्राणनाथ ! || चरित्रम् । राजगृहगमनात् भवतः कीदृशोऽनर्थोऽजनिष्ट । भवदनायैव सर्वमेतद्विहितं तेन । अतो बहु विचार्य II
भवता विधातव्यं कार्यमेतद्यतोऽविचारितं कार्यमनायैव भवतीति । शास्त्रादिना श्रूयते- सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव संपदः KI एतादृकार्यनैपुण्येन किं ? एतादृग्लजयापि किं ? येन यया वा स्वीयैव हानिः संपद्येत ।
नेदानी किमपि जातम् , अतो राज्ञे कंचन व्याज दत्त्वैहि । एवंभूतवसन्तश्रीमुखनिस्सृतवाचमाकर्ण्य स हरिबलोऽप्याह-प्रिये ! मा भैषीः। धर्मोऽयं खलु मतिमतां, यत् साहसिको जनः प्रतिज्ञां कृत्वा पुनः पश्चात् पादं मा विदध्यात् । प्राणा ब्रजेयुः, किं च प्रतिज्ञाभङ्गो मा भवेत्। यथा चन्द्रो विपत्तिं प्राप्यापि मृगलाञ्छनं नैव जहाति ' अतोऽमुष्मै कार्यायावश्यं गन्तव्यं मया। यद्भवितव्यं तद्भावि मह्यं, मदीया चिन्ता नैव किन्तु त्वदीयैव । यथा सिंहो हरिणी हरेत्तथा त्वां राजेति' हरिवलीयां वाचमाकर्ण्य सहर्षिका सा वसन्तश्रीनिजभत्रै शुभमीहमाना तद्वियोगात्सबाष्पनेत्रा रोमाञ्चितगात्रा व्याहरत्-शुभो भवते भूयात् पन्थाः कार्य संसाध्य शीघ्रमेवागन्तव्यं भवता, नैव शोच्याहं
Sain
International
For Personal & Private Use Only
www.jainelibrary.org