SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Jain Educa 소규 नीतिरसौ, ' यदुत्तमा निजजीवं पातयेत् किं च निजसदाचारशीलं सर्वत्रैव संपालयेत् ' किन्त्वेतदेव भवन्तं वच्मि स्वीया रक्षितव्या अवश्यं प्राणाः अविचारितं कर्म कृत्वा पतङ्गवन्न मर्त्तव्यम् । यतो हि -- जीवन् भद्राण्यवाप्नोति, जीवन् पुण्यं करोति च । मृतस्वदेहनाशस्य धर्माद्युपरमस्तथा ॥ १ ॥ प्राणेश्वर ! भद्रपुरुषाय शिक्षेयं खलु स्त्रियाः किं च भवति प्रेमाधिक्या न स्थिरायते मे चेतः । अतो भवकन्तं भणाम्येव । इति सुधामयीं प्रेमवतीं तदीयां वाचं पायं पायं स हरिबलो दक्षिणस्यां दिशि प्रातिष्ठत । केवलं सत्वरूपसुहृदा सह भूरिग्रामदेशविकटाटवीः समुल्लंघयन् स समुद्रान्तिकमायातः । गत्वा च तत्र बहुभयानकं वाद्धिं दृष्ट्रैव सचिन्तचेतसा चिन्त्यते स्म । यत्कथं विलंघ्योऽसौ वार्धिः ? कथं वा गम्या लंका नचात्र वर्तते काचन नौः, कार्यसाधनमन्तरा कथं पश्चात्पादनिधानं, यतोऽहं धीवरस्तत्रापि इयती मे महती प्रतिष्ठा ! अहो इदानीं कार्याकार्यविमूढस्य मे को वा हितकृत् साहाय्यकः स्यात् । यदधुना मदर्थमुच्चप्रतिष्ठानदायी मद्धीवरत्वापहारी यो देवः सचैतादृक्काले मम साहाय्यकश्चेद्वरं स्यादिति समुद्राभ्याशे क्षणं विमर्शं विमर्शं हृदि धैर्यं चावलम्बमवलम्वं हे जीव ! कातरत्वे कार्यसिद्धेराशा दुराशैवेति भूयो भूयो विचारं कारं कारं मदीयं मरणं स्याज्जीवनं वा For Personal & Private Use Only ainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy