SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ चरित्रम् । 118 यद्भावि तद्भावि मृतिरप्येकवारमवश्यैवेति अवधारमवधारं सहसैव वार्डों झम्पापातमकरोत् । अथ यावत्तेन झम्पापातो विधीयते तावत् वा_धिष्ठातृदेवः पूर्वप्रदत्तवरप्रभावतस्तदन्तिके समागत्य | सप्रणामं तमूचे-यत्त्वन्नियमफलप्रभावात्तुष्टोऽहं तावकं साहाय्यं करिष्ये, इति तदीयं वचोऽभिज्ञाय : सोऽप्याह-यन्मया लङ्कापुरी गन्तव्यास्तीति सोऽपि श्रुत्वैव तदीयं वचोऽङ्गीकृत्य हरितुल्यं हरिबलं शेषनाग इव स देवस्तं खीयपृष्ठे समारोप्याम्भोधिमार्गे संचलन् वायुदेववदल्पकालेनैव तं । लकोद्याने समपातयत्। ___ अथ हरिबलोऽल्पकालं विद्याधरवनानि, सर्व फलानि, तत्रत्यगुमाँश्च विलोकयन् प्रतिस्थाने परिभ्राम्यन् सुवर्णमय्यां लङ्कापू· प्राविशत् । स च लङ्काश्रियं तत्रत्यकौतुकाँश्च संप्रेक्ष्य तृप्ति नापत् । अत्रान्तरे किमपि कनकमयं सुभवनं समपश्यत् । तच्च कीदृगासीत्-क्वचिन्मेरुसदृशा घटिता स्वर्णराशिः, क्वचित् पाषाणतुल्या रजतराशिः, क्वचिद्धान्यराशिवन्मणिराशिः, क्वचिच्चणकान्नराशिवत्प्रवालराशिः, क्वचित्स्फटिकरत्नराशिः, कचिन्मरकतादिमणिराशिः, क्वचिन्नीलरत्नराशिरित्यादिविविधमणिराशीन् व्यलोकयत् । प्रज्वालनार्थं स्थापितां काष्ठराशिमिव सुगन्धिमयीं चन्दन ॥३७॥ Sain International For Personal Private Use Only www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy