________________
चरित्रम् ।
118 यद्भावि तद्भावि मृतिरप्येकवारमवश्यैवेति अवधारमवधारं सहसैव वार्डों झम्पापातमकरोत् । अथ यावत्तेन झम्पापातो विधीयते तावत् वा_धिष्ठातृदेवः पूर्वप्रदत्तवरप्रभावतस्तदन्तिके समागत्य | सप्रणामं तमूचे-यत्त्वन्नियमफलप्रभावात्तुष्टोऽहं तावकं साहाय्यं करिष्ये, इति तदीयं वचोऽभिज्ञाय : सोऽप्याह-यन्मया लङ्कापुरी गन्तव्यास्तीति सोऽपि श्रुत्वैव तदीयं वचोऽङ्गीकृत्य हरितुल्यं हरिबलं शेषनाग इव स देवस्तं खीयपृष्ठे समारोप्याम्भोधिमार्गे संचलन् वायुदेववदल्पकालेनैव तं । लकोद्याने समपातयत्। ___ अथ हरिबलोऽल्पकालं विद्याधरवनानि, सर्व फलानि, तत्रत्यगुमाँश्च विलोकयन् प्रतिस्थाने परिभ्राम्यन् सुवर्णमय्यां लङ्कापू· प्राविशत् । स च लङ्काश्रियं तत्रत्यकौतुकाँश्च संप्रेक्ष्य तृप्ति नापत् । अत्रान्तरे किमपि कनकमयं सुभवनं समपश्यत् । तच्च कीदृगासीत्-क्वचिन्मेरुसदृशा घटिता स्वर्णराशिः, क्वचित् पाषाणतुल्या रजतराशिः, क्वचिद्धान्यराशिवन्मणिराशिः, क्वचिच्चणकान्नराशिवत्प्रवालराशिः, क्वचित्स्फटिकरत्नराशिः, कचिन्मरकतादिमणिराशिः, क्वचिन्नीलरत्नराशिरित्यादिविविधमणिराशीन् व्यलोकयत् । प्रज्वालनार्थं स्थापितां काष्ठराशिमिव सुगन्धिमयीं चन्दन
॥३७॥
Sain
International
For Personal Private Use Only
www.jainelibrary.org