________________
115 सर्वत्र सुलभा राजन् ? पुमांसः प्रियवादिनः । अप्रियस्य कुपथ्यस्य, वक्ता श्रोता च दुर्लभः ॥ १॥ ___ अथ स राट् हरिवलमारणाय कुमतिमन्तं मुख्यामात्यमाह-यद् भोः ! करणीयोऽस्ति मयो- | त्कृष्टविवाहमहोत्सवः, अतो वर्त्तते कश्चिदेतादृशः सत्त्वान् पुमान् , यो लङ्कापुरीं गत्वा सकुटुम्बं । राक्षसाधिपं विभीषणं समाकारयेत् । सभास्थितैतादृशमघटितं राजवचः समाकर्ण्य सर्वलोकोऽधोमुखीभूतः, नालञ्च कोऽपि राजसंमुखी भवितुम् । अथ दुष्टमतिः स राजमंत्री राजानमित्थमभ्यधात्-स्वामिन् ! सर्वभूपतिललामभूत ! कीदृशो भावत्काः सेवकाः, यत् भावत्कं वचः श्रुत्वा समेऽ. प्यसमर्था इव कृतनीचैर्मुखा बभूवुः । न कोऽपि संमुखोत्तरदायी, किं चाहं जानामि यश्चैतादृक्कार्ये सामर्थ्यवान् स च साहसिकशिरोमणिहरिबल एवेति । स च भावत्कं कार्यमवश्यं विधास्यतीति मे विनिश्चयः यतो भवता सम्मान्यः, मान्यो भवाँश्च तेनापि, सत्यभूतां तदीयां वाचमवधार्याभाणि राज्ञा स हरिवलः । लज्जावशीभूतः सोऽप्योमिति स्वीचकार । “ यतो हि सलज्जाय पुंसे वाक्यमेवोन्नतादुन्नतं कर्म, त्रपावशीभूतो जनोऽकार्यमपि कार्यमङ्गीकृत्य स्वीयमरणमपि स्वीकरोत्येव । ततः स धीवरो हरिवलो निजगृहमेत्य तदीयं वचो निजभार्यायै वसन्तश्रिये संश्रावयामास । श्रुत्वैव
Jain Edu
For Personal & Private Use Only
mjainelibrary.org