________________
-
सार
५ ।।
114 भृत्ये भक्तिभरावहं नरपतौ सन्मानपूजाप्रदं, महादौ च यशस्करं वितरणं न क्वाप्यहो निष्फलम् ॥१॥ किंवदन्त्येत्थमाकर्ण्य तन्नगराधिपतिर्भूपतिः सबहुमानं हरिबलं सभायां समाकार्य बहुमानादिभिः सत्कृत्य निजान्तिके संस्थाप्य गोष्टयादिकं विहितवान् । अथ हरिबलोऽपि तद्दिवसमारभ्य शाश्वतिकां राजसेवां कर्त्तुमारब्धवान् । 'यस्य हि पुण्योदयः स्यात् स सर्वमनोरथफलभाक् स्यात् ' । अतएव स नृपतिर्हरिवलाय बहुप्रसन्नतामाप्य तदर्थं कामधुग् जातः । इत्थं जाते कियत्यपि काले स हरिबलो जातु व्यचिन्तयत्-यद्राज्ञा साकं नव्यासौ प्रीतिः, अतः कदाचित् निमन्त्रयितव्यो नृपतिः, विचार्यैवं भूपतिं निजगृहमानीय बहुभक्तिपूर्वकं भोजयामास । स च भूपतिर्भुञ्जनः पक्वान्नमिष्टादिसमर्पयन्तीं हरिबलीयां भार्यां वसन्तश्रियं विलोक्यैवं कामातुरीभूय विमृशति स्म-यत्कथङ्कारमपि हरिबलं संमार्य क्वचित् चिपामि चेत् स्त्रीयं मदधीना स्यात् । अहो धिगेतादृशं कामातुरं जनमिति । अथ कुमार्गमापतन्तं कामातुरं राजानं तदीय: स कुमात्यो भूपतिं कुमार्गादनिवारयन् राज्ञोऽभिप्रायमवगत्य सेयः प्रैरयत् ! हन्त धिगेतादृशं मुख्यामात्यं येन राजाऽनर्थग पात्यते । हो सत्यमेव-
nternational
For Personal & Private Use Only
चरित्रम् |
॥ ३५ ॥
www.jainelibrary.org