SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 113 गत्वा सलक्षणकं घोटकं चिक्राय । कतिपयाँश्च दासीदासान् स्वान्तिके संस्थापयामास । यतः | 'सति द्रव्यव्यये को नाम देहक्लेशादिकमुपसहते।' ततः सदासादिको चलन्तौ भूरिदेशान् समुल्लंघयन्तौ क्रमशो लक्ष्म्या विशालं विशालपुरं | समपलभ्य शुभशकुनेन तस्मिन् सुपत्तने प्रविविशतुः । ततो गते कियति काले कस्माञ्चिद् व्यव- । हारिपुत्रात्सप्तभूम्यावासं मूल्यतः संक्रीय तस्मिन् गृहे शुभमुहर्ने स्थितिं चक्राते। ततो हरिबलो | विचिन्तयति- क्वाहं नीचवंश्यो धीवरः?, क्वासौ पुण्यवती राजपुत्री ?, क्वेदं वित्तसामग्रीबाहल्यं? IN क्व चाह निर्धनो जनः ? अस्तु सर्वमपि दैवयोगतोऽलाभि मया । अतः पद्मां प्राप्यापि किमर्थं न लक्ष्मीफलं लभेयाहम् ।' इत्थं विमृश्य हीनदीनदुःखिजनेभ्यो बहुदानं प्रदत्ते स्म । अतस्तदीयं सौभाग्यातिशयं यशश्च सुविस्तारतामगात् । अथान्ते नगरे किंवदन्तीयं जाता-यत् कश्चनैको वैदेशिको राजपुत्रः समागात्, स चाखण्डं दानं देदीयते । महागुणवानुदारचेताश्च यतो दानात् | किं किं न बोभूयते खलु किन्तु सर्वमेव । तथाहि-- पात्रे धर्मनिबन्धनं परजने प्रोद्ययाख्यापकं, मित्रे प्रीतिविवर्द्धनं रिपुजने वैरापहारक्षमम् । Jain Educationallonal For Personal Private Use Only Mnelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy