________________
113 गत्वा सलक्षणकं घोटकं चिक्राय । कतिपयाँश्च दासीदासान् स्वान्तिके संस्थापयामास । यतः | 'सति द्रव्यव्यये को नाम देहक्लेशादिकमुपसहते।'
ततः सदासादिको चलन्तौ भूरिदेशान् समुल्लंघयन्तौ क्रमशो लक्ष्म्या विशालं विशालपुरं | समपलभ्य शुभशकुनेन तस्मिन् सुपत्तने प्रविविशतुः । ततो गते कियति काले कस्माञ्चिद् व्यव- । हारिपुत्रात्सप्तभूम्यावासं मूल्यतः संक्रीय तस्मिन् गृहे शुभमुहर्ने स्थितिं चक्राते। ततो हरिबलो | विचिन्तयति- क्वाहं नीचवंश्यो धीवरः?, क्वासौ पुण्यवती राजपुत्री ?, क्वेदं वित्तसामग्रीबाहल्यं? IN क्व चाह निर्धनो जनः ? अस्तु सर्वमपि दैवयोगतोऽलाभि मया । अतः पद्मां प्राप्यापि किमर्थं न लक्ष्मीफलं लभेयाहम् ।' इत्थं विमृश्य हीनदीनदुःखिजनेभ्यो बहुदानं प्रदत्ते स्म । अतस्तदीयं सौभाग्यातिशयं यशश्च सुविस्तारतामगात् । अथान्ते नगरे किंवदन्तीयं जाता-यत् कश्चनैको
वैदेशिको राजपुत्रः समागात्, स चाखण्डं दानं देदीयते । महागुणवानुदारचेताश्च यतो दानात् | किं किं न बोभूयते खलु किन्तु सर्वमेव । तथाहि--
पात्रे धर्मनिबन्धनं परजने प्रोद्ययाख्यापकं, मित्रे प्रीतिविवर्द्धनं रिपुजने वैरापहारक्षमम् ।
Jain Educationallonal
For Personal Private Use Only
Mnelibrary.org