SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ १९ | इत्थं बहु विमृश्य मन्दिरतो निर्गच्छन् तदाननप्रत्यक्षीभूयाग्रे चलितुमारब्धवान् । - अथ स धीवरो निजचेतसीत्थं विचिन्तयति-एतन्निखिलमेव केवलं जीवहिंसाऽकरणादेव । यथा तन्निहाय हिंसां विदधानो हि यस्तां विजहाति, स एव पश्चाद् दरिद्रोऽपि राज्यं लभते, तथाहमपि पूर्वं मीनवधाय जालोपरि जालं प्रसारयन् तमजहामत एतादृक् सुखमनुभवामीति । अथ हरिबलं गजाश्वान्वितं प्रेक्ष्य सा राजपत्री तमित्थमाह-कथमीदृशस्त्वं?, किं तावकं वासो । वाहनादिकमपाहापीच्छुत्वैवं स व्यम्राक्षीत्-इदानी मे मौनावलम्बमेव वरीयः इति निश्चित्य हुङ्कारमात्रमेव व्याहार्षीत् । निजसर्वद्रव्यविनाशी असौ, इति निश्चिकाय सा। अतस्तदर्थमनुशोचन् हुङ्कारमात्रमवायमभिधत्ते, इति स्वीये हृदि विमृश्य तस्मै वासोलङ्कारादि परिधानार्थमर्पयामास । अथ तां सोऽभ्यधात्-यत्केनापि गणयितुमशक्य एतावान् मे पार्श्वे द्रव्यनिचयोऽस्ति । मद्विषये सर्वथा चिन्ताऽकार्या भवत्या, भाविनी खलु नौ मनोऽभीष्टसिद्धिः। यथा विमर्शी जनः स्वप्ने गतं धनं न शोचति तथा त्वं मदर्थं माऽशोचीरित्यं विचिन्त्य तेन सत्रा विनोदार्थं प्रेमान्वितवचो विदधती सा यत् किमप्यभिधत्ते । तच्छ्रुत्वा | For Personal Private Use Only Sinelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy