________________
चरित्रम् ।
तस्य चेदृक् क्व भाग्यम् यः पूर्णभाग्यो यस्य च तया सार्धं प्राग्जन्मसम्बन्धः स एव तां परिणयेत। अस्मिन्नेवावसरे धीवरो हरिबलोऽपि तद् देवीदेवालयमध्ये समागत्यैकान्तप्रदेशे सुखसुप्तोऽभूत् ।। .. अथ सा राजपुत्री निजकार्यसंसाधनाय स्वपितृभ्यां कलहमापादयन्ती पृथगेवावात्सीत् । पश्चात्संकेतितादिने नानाविधरत्नाभरणवासोमुख्यवस्तुजातं संगृह्याश्वमारुह्य द्वारमायाश्चके ।। ततः प्रागद्वाररक्षकाय रत्नमुद्रादि समर्प्य कपाटायुघाटयाञ्चके। देवीमन्दिरे च गत्वा निर्वायं IN हर्षद्वहन्ती हरिबलमाह्वयाञ्चक्रे-अयि ! अस्तीह कश्चित् पुण्यवान् हरिबलाभिधः । देव्या इव
दिव्यालङ्कारभूषिताया घोटकाधिरूढायाः कुमारिकायाः सुधामयीं वाचमाकर्ण्य सोऽपि बहु हर्ष | NI मन्वानः सविस्मयः सहर्षचेता मन्दिराऽधिष्ठितकन्या सन्तोषाय हुङ्कारशब्दं प्रोवाच । श्रुत्वैव ।
सापि प्रियप्राणनाथ ! झटित्येव सजीभूय समेतु ? अद्य हि विदेशगमनाय सफलीभूतो नौ मनोऽ- | है भीष्ट इति तं संव्याजहार । अथ हरिबलो निजहृदीत्थं निरचैषीत्-यन्मन्नामा कश्चिद् द्वितीयो IN/ हरिबलस्तु नास्ति यत्तदर्थं संकेत इति प्रतिभाति मे; किं च परिश्रममन्तरा स्त्रीप्राप्तिः, मां च |
प्रीत्याऽऽकारयति अतस्तया सह कुतो नैमि । पुण्योदयादेवैतादृशी घटना भवतीति मे निश्चयः।
॥३२॥
Widerinternational
For Personal & Private Use Only
www.jainelibrary.org