SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ द्धं सार ३ ॥ 110 विचिन्तयति सः, सर्वत्रैव मे हुङ्कारमात्रमेव फलदमिति विमृश्य भूयो भूयो हुङ्कारमात्रमेवोत्तरयामास । सापि शङ्कामदधाना स्वहृदि विचारयति - यत् किमसावज्ञः ? उताहंयुः, यतो हुङ्कारमेव मुहुर्मुहुर्व्याहरति । यद्वा सरोषो मय्येव, किमर्थं मां सम्यक् न ब्रूते, किं च भूयोऽपि सा विचार - यति-यतोऽयमुन्मार्गगन्ताऽतोऽस्य रक्षणाय नोपायान्तरं किञ्चिदपि, इत्थं शङ्कया व्यथितहृदया यावद् धुरि संक्रामति तावद्धिमांशुद्युतिमेकं निजमनोऽभीष्टदं कंचन पुमांसमद्राक्षीत् । निरीक्ष्य चैनम्, हा हेति शब्दायते स्म । वज्राघातताडितेव बहुविधां व्यथां लभमाना सा राजपुत्रिका विचिन्तयते-हन्त ! अहो धिग् विधातारं येनाहमुभयतो भ्रष्टीकृता, सांप्रतं पङ्कपतितहस्तिनी - वाहम् । यतः निदाधे हा ! धातः प्रचुरतरतृष्णातरलितः, सरः पूर्णं दृष्ट्वा त्वरितमुपयातः करिवरः । तथा पङ्के मग्नस्तदानिकटवर्त्तिन्यपि यथा, न तीरं नो नीरं द्वयमपि विनष्टं विधिवशात् ॥ तथा मे पूर्व निजपितृतो विप्रयोगो राज्यश्रीत्यागो लोकविरुद्धाचरणात्पूर्वोक्तपङ्कपतितहस्ती - वाहमभवम् । किं बहुना मणिस्थाने मृदेव हस्ते समायाता । एतन्निखिलं स्वच्छन्दाचरणादेव International For Personal & Private Use Only चरित्रम् ! ॥ ३३ ॥ www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy