________________
५२४ अथ दासीमुखादेतादृग्वचनानि श्रुत्वा श्रोत्रे समुत्पन्नबहुव्यथेव तद्वचोऽसहमाना कथञ्चिद् धैर्यमवलम्ब्य कष्टवाद्धि तरितुं बाढं नवा बाढमिति किमपि दासी ह–ततस्ता दास्यो राजान्तिकं गत्वा सर्वमुदन्तमवोचन् । तेनापि स्वीये हृदि विनिश्चितं, यत्तया नोति नोचे, अतो विज्ञायते साऽवश्यं मे स्वीकृताशयाऽभूदिति बहुधा विमृश्य प्रमुदितमनाः कामातुरः पुष्पधन्वनो धनुरिव स रात्रौ चौर इव हरिबलगृहमाजगाम । अतिकामातुरो नृपतिर्वसन्तश्रियं दृष्ट्वा परां NT प्रीतिमापत् । अथ पतिप्रिया सती, हरिबलप्रिया, नैनं विषादमन्तगोपयन्ती, राजानमालोक्य । युक्तायुक्तं वचो विदधती, ससंभ्रमाऽऽसनादिभी राजानं सम्मान्यावोचत्-यद् भवदागमनान्मे | महान् हर्षोऽजनीति । श्रुत्वैतत् स नृपतिर्बहु प्रजहर्ष । पातिव्रत्यान्विता सा मनोवचनकायादिभिः स्वशीलरक्षणायासतीवाऽऽचरतीति साधारणेयं जगतो दशा । अतः साप्यसतीवाऽऽचचार । स च स्वात्मानं बहु कृतार्थं मन्यमानस्तामित्थमाह-यदयि वसन्तश्रि! त्वदाकारणाय मेऽत्रागमः ।
अतो मया साकं शीघ्रमेव ब्रज। यथा कनकमन्तरा रखं न भाति तथा त्वामन्तरेण मेऽन्तःपुरं न | भाति । इत्थं श्रुतनृपतिवागजाला जातान्तर्बहुरोषा सा युक्त्या तं नृपतिं सम्बोधितवती-राजन् !
Jain Educ
a
tional
Personal & Private Use Only
ainelibrary.org