________________
54
योद्धं सज्जितोऽभूत् । अथ तां हंसी तिलकमायें समर्प्य रत्नसारस्तुरगमारुरोह । ततश्चन्द्रचूडार्पितं धनुरानम्य तदीयटङ्कारनादेन सकलामपि विद्याधरचमूं भीषयामास । ततः प्रावर्त्तत विद्याधरगणेन सह तुमुलं युद्धम् । यथा मेघो वारिधारां वर्षति, तथा द्वयोः पक्षयोः परस्परं शराणां वृष्टि | भवितुमलगत् । रत्नसारविजिगीषया विद्याधरा विद्यावलेनातिभीषणं योर्बु लग्नाः । एवं विद्या- 10 धरविजेतुमिच्छया रत्नसारोपि देवबलेन वीरपुंसामपि विस्मयकरं युद्धं कर्तुमलगत् । प्रान्ते विद्याधरचमूः सकलापि कुमारभयेन छिन्नभिन्नाङ्गी ननाश । नष्टां निजां चमूमालोक्य चमत्कृतो भृशं । प्रकुपितः स्वयमेव दशमुखधारी विद्याधरस्वामी योद्धुंमुत्तथौ। पुरासौ कराणां विंशत्या युयुधे ।। ततो विद्याबलेन हस्तानां सहस्रं दधानो महाभीषणं शस्त्रास्त्रैरयुध्यत । रत्नसारोऽपि क्षुरप्रेण शरेण || विद्याधरेन्द्रसत्कानि शस्त्राण्यस्त्राणि चाऽच्छत्सीत् । तथैकेन बाणेन धनुश्चिच्छेद । एवमपरेण शरेण तस्य हृदयं विव्याध । ततो विद्धवक्षसस्तस्य भूयसी रुधिरधारा निरगच्छत् । ततो मूछितः स -
चेतनः सञ्जातसमरोत्साहः स विद्यावलेन लक्षरूपं धृतवान् । तदानीं तावद्भिस्तद्रूपैरखिलेयं मही व्याप्ताभूत् । सर्वत्र तद्रूपमेवापश्यत्स रत्नसारः; तथापि कुमारोमनागपि |
भूमौ पप
त। अथ लब्धचेतनः सः
SainEdurina
For Personal Private Use Only
ainelibrary.org