SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 56 व्याख्या-यथा मेघः शरत्काले गर्जत्येव, न कदाचिदपि वर्षति। वर्षासु-वर्षाकाले तु गर्जति न, | चरित्रम् । किन्तु वर्षत्येव । तथा नीचस्त्वादृशः कातरः पुमान् वदति भृशम् , प्रतीकारं न करोति । सजनस्तु स्वगौरवं नाख्याति, किन्तु क्रियामेव करोति। ____ अतो निगदामि यदि शूरोऽसि, तर्हि शौर्य प्रकटय, किमीदृशाऽसदालापेन । किञ्च हस्ततालिकया अपरिचिताः पक्षिण एव पलायन्ते । गृहपारावतास्तु पटहाऽऽरवादपि मनागपि नैव विभ्यति । मम शरणागतामिमां हंसी भोगीशफणातो मणिमिव किं कामयसे ? एतजिघृक्षां त्यज, ममाग्रतो दूरं व्रज, जीविताशां बिभर्षि चेत्, सत्वरमितः पलायनं विधेहि । नो चेत् तावIN कानि यान्येतानि दश मस्तकानि तान्यधुनैव दिग्पालेभ्यो बलिं ददिष्ये । अस्मिन्नवसरे रत्नसार साहाय्याय देवरूपं विकृत्य मयूररूपं विहाय विविधास्त्रशस्त्रं दधचन्द्रचूडो देवस्तत्रागत्य इत्यवक्भोः कुमार ! भयं मा कृथाः यथेष्टमनेन सह युध्यस्व । अहं ते सहायतां दास्यामि, शस्त्रास्त्राणि नानाविधानि ददिष्ये, भवतः सर्वान् शत्रून् हनिष्यामि, किमधिकं निगदामि-यथा त्वं विजेष्यसि प्रबलानप्येतान् विपक्षपक्षांस्तथाहं विधास्यामि । इति देवोक्तमाकर्ण्य स कुमारः प्रवृद्धोत्साहस्तदैव ला॥ ११ ॥ lernational For Personal Private Use Only witainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy