________________
Jain Educat
55
स विद्याधरराजस्तत्रागतवान् । आगतं तमालोक्य त्रस्तः शुकः कुमारसन्निधावाययौ । यतो धीमान् पुमान् भयङ्करे स्थानके चिरं न तिष्ठति । अथ स विद्याधरनाथः उच्चैर्हुङ्कुर्वन्नुवाच - अरे रङ्ग ! झटिति दूरमपसर, नो चेदचिरादेव मरिष्यसि । मामकीमिमां प्राणकल्पां हँसी निजोत्स धृत्वा किमिति सुखेनोपविष्टोऽसि ? अरे निर्लज्ज ! निर्भीक ! त्वं चोरवन्मदमूल्यमेतदपहृत्य मम स्वमुखं किं दर्शयसि । एतत्कालं मयि पुरस्तिष्ठति सति कथं न पलायसे ? त्वमधुना कालग्रस्त इव मत्तो मृत्युं कथं कामयसे ?, अत्रावसरे कीरमयूरतिलकमञ्जरीहंस्यः कृतान्तमिव पुरः स्थितं तं पश्यन्त्यः क्वचिदेकत्र प्रदेशे ऽतिविस्मितास्त्रस्ता अतिष्ठन् । अथ रत्नसार आह-रे मूढ ! विद्याधराधम ! केवलं धान्यपलालमिवासारः प्रतिभासि । यदेवं प्रलपसि, त्वदीयवाङ्मात्रेण शिशव एव त्रस्यन्ति, न जातु शौर्यवन्तः । यदि शौर्यं धत्से, तर्हि पराक्रमेण हंसीं गृहाण । त्वमिव यो हि गृहशूरो भवति, स एवं प्रलपति । क्रियां तु नैव कुरुते, अशक्तत्वात् तदुक्तम्
गर्जति शरदि न वर्षति, वर्षति वर्षासु निस्वनो मेघः ।
नीचो वदति न कुरुते, न वदति कुरुते च सज्जनो लोकः ॥ १ ॥
For Personal & Private Use Only
helibrary.org