SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ बर्द्ध ननार अन्यथा कथमेवं नस्तिरस्कुर्यात् । अहो विद्याधराणां नः सिंहनादो जगजिष्णुर्भूत्वापि कीरस्यास्य चरित्रम्। हङ्कारनादेनापि त्रस्यति, महदाश्चर्यमेतत् । धिग् धिगीदृशान् कातरान् नः यस्य महावीरस्य कीर एव विद्याधरान् क्षोभयति। स कुमारः कीदृशः कियांश्च बलवान् भविष्यतीति को वेत्ति । बलमविज्ञाय कोऽपि केनापि युद्धाय नैव सज्जते । इति निश्चितवन्तस्ते भटाः पश्चाद्वलित्वा स्वस्वामिनोऽग्रे यथाजातमशेषं वृत्तमूचुः । तदाकर्ण्य स विद्याधरेशो मेघ इव गर्जन् हस्तौ पृथ्व्यां पातयन् भ्रकुटिमाकृषन् केसरीव महता निनादेन तानवोचत्-अरे कातराः ! रङ्का इव कथं कीरवचसा कांदिशीका भवन्तः परावर्तन्त । धिगस्तु भवतो गेहेशूरान् । अरे ! कोस्ति कुमारः, को वा तदीयः शुकः । ममाग्रे | कोऽपि नैव प्रभवितुमर्हति । भवन्तः केवलं कीरवचनेन वञ्चिता मुधैव भीतिमापुः । अधुनैव पश्यत पश्यत मदीयपौरुषम् इत्युदीर्य दशशिरांसि, कराणां विंशति, विकृत्यैकस्मिन् पाणौ खगं, द्वितीये खेटकं, तृतीये गदां, चतुर्थे धनुरित्थं तत्तत्करेषु तानि तानि दिव्यानि शस्त्राणि विभ्रदतिभीषणं प्रकुपितान्तकोपमं रूपं दधद् वीरचेतांसि भीषयन् सिंहनादं मुहुशोऽत्युच्चैः कुर्वन् 11॥ Sain Edul l national For Personal & Private Use Only Ww.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy