________________
___
| भैषीः, इह हि वीतराग-जिनेन्द्रप्रभोः सन्निधौ मनागपि कुतोऽपि कस्यापि भीति!त्पद्यते । अवdl श्यमेतद्विद्धि । यन्मम क्रोडे स्थितां त्वां नरेन्द्रो विद्याधरेन्द्रो देवेन्द्रो वा पराभवितुं नार्हति । । ततस्तटाकतोऽतिमिष्टं पयः समानीय कुमारस्तामपाययत् । पुनस्तामपृच्छत्-हंसि ! त्वं कासि ? | N|| कुतस्ते भयमस्ति ? कुत आयासि ? मनुष्यवाचं कथङ्कारं निगदसि ? सर्वं मे कथय।
___अथैवं स्नेहपरं कुमारोक्तं श्रुत्वा सा हंसी यावदात्मवृत्तं वक्तुमैहिष्ट, तावदुच्चैर्गर्जन्ती महती | | विद्याधरसेना व्योम्नस्तत्रावातरत् । तामवलोक्य मनसि जातशङ्कः कीरो मन्दिराबहिरागत्य द्वारो- | परि समुपाविशत् । तदा तीर्थमहिम्नः कुमारस्य सौभाग्यतया वा विकृतातिभीषणतनुः पर्वताकारः कीरः क्रुधा ध्रुवौ वक्रीकृत्य तां चमूमित्थमाह-अरे रे विद्याधराः ! कस्यानुपदं धावत ? कुत्रेदानीं वजथ ? अग्रे देवासुरानपि तृणाय मन्यमानो रत्नसारस्त्रिभुवनमहाभटजिष्णुस्तिष्ठति । तं किमिति नो वेत्थ, तस्मिन् क्रुद्धे सति यूयं नूनमेव कांदिशीका भविष्यथ । अतोऽहं हितं वच्मि, यदि
जीवितुमिच्छथ, तर्हि शीघ्रमेवेतः पलायध्वम् । ईदृशं भीषणं शुकभाषितं श्रुत्वा संत्रस्ता सा Mall चमूर्विस्मिता सत्येवमचिन्तयत्-अहो ! नूनमेष कीररूपधारी कोऽपि देवो दानवो वा विद्यते ।
in Educ
rsonal & Private Use Only
Mainelibrary.org