SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ चरित्रम् । बर्द्धनसार ९ ॥ समानमेवासीत् । अत्रान्तरे कीरोऽवदत्-हे सुन्दरि ! नूनं तवाद्य भगिनी मिलिष्यति । सा प्रत्यूचे-शुकराज ! यदि सत्यं भविष्यति त्वदुक्तम् । अहं भगिनीं विलोकिष्ये तर्हि त्वामर्चिष्यामि। all इत्थं यावद्रत्नसारकीरतिलकमार्य आलपन्ति, तावदकस्मादेका हंसी गगनादागत्य कुमाराङ्के पपात । सा भयभीतिमावेदयन्ती भृशं कम्पमाना मुहुः कुमारमुखमवलोकमाना मनुष्यभाषया न्यगदत् । यथा-हे सत्पुरुष ! शरणागतपरिपालक! मामनाथामशरणामतीवदीनां शरणागतां पाहि पाहि । लोके धीरपुरुषाः शरणमागतं कृतापराधमपि कारुण्येनावन्त्येव कदापि नोपेक्षन्ते। यदाह दिवाकराद्रक्षति यो गुहासु, लीनं दिवाभीतमिवान्धकारम् । तुद्रेऽपि नूनं शरणं प्रपन्ने, ममत्वमुच्चैः शिरसां सदैव ॥१॥ व्याख्या-यो हिमाचलः गुहासु-कन्दरासु लीनं-संस्थितं दिवाभीतं-दिवाकराद् भीतिमापन्नमन्धकारं रक्षति-परित्रायते । यतः शरणं प्रपन्ने-शरणार्थिनि क्षुद्रेऽपि-अयोग्येऽपि जने उच्चैः शिरसां-महात्मनां सदैव ममत्वं जायते। इति हंस्या भाषितमाकर्ण्य करुणाकरो रत्नसारस्तदङ्गानि मृदुकरेण स्पृशन्नवक्-हे हंसि ! मा ॥९॥ sain t ernational For Personal & Private Use Only ww.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy