________________
चरित्रम् ।
बर्द्धनसार ९ ॥
समानमेवासीत् । अत्रान्तरे कीरोऽवदत्-हे सुन्दरि ! नूनं तवाद्य भगिनी मिलिष्यति । सा
प्रत्यूचे-शुकराज ! यदि सत्यं भविष्यति त्वदुक्तम् । अहं भगिनीं विलोकिष्ये तर्हि त्वामर्चिष्यामि। all इत्थं यावद्रत्नसारकीरतिलकमार्य आलपन्ति, तावदकस्मादेका हंसी गगनादागत्य कुमाराङ्के
पपात । सा भयभीतिमावेदयन्ती भृशं कम्पमाना मुहुः कुमारमुखमवलोकमाना मनुष्यभाषया न्यगदत् । यथा-हे सत्पुरुष ! शरणागतपरिपालक! मामनाथामशरणामतीवदीनां शरणागतां पाहि पाहि । लोके धीरपुरुषाः शरणमागतं कृतापराधमपि कारुण्येनावन्त्येव कदापि नोपेक्षन्ते। यदाह
दिवाकराद्रक्षति यो गुहासु, लीनं दिवाभीतमिवान्धकारम् ।
तुद्रेऽपि नूनं शरणं प्रपन्ने, ममत्वमुच्चैः शिरसां सदैव ॥१॥ व्याख्या-यो हिमाचलः गुहासु-कन्दरासु लीनं-संस्थितं दिवाभीतं-दिवाकराद् भीतिमापन्नमन्धकारं रक्षति-परित्रायते । यतः शरणं प्रपन्ने-शरणार्थिनि क्षुद्रेऽपि-अयोग्येऽपि जने उच्चैः शिरसां-महात्मनां सदैव ममत्वं जायते।
इति हंस्या भाषितमाकर्ण्य करुणाकरो रत्नसारस्तदङ्गानि मृदुकरेण स्पृशन्नवक्-हे हंसि ! मा
॥९॥
sain
t
ernational
For Personal & Private Use Only
ww.jainelibrary.org