SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 59 हेरत्नजटिता सौवर्णमयी मूर्त्तिः श्रीऋऋषभदेवस्य वर्त्तते । तामेव मूर्त्ति प्रत्यहं भक्त्या समभ्यर्चय । तत्रैव भगिनीं द्रक्ष्यसि । अन्यदपि सकलं समीहितमेष्यसि । एष मम सेवकश्चन्द्रचूडनामा देवो मयूरीभूय प्रत्यहं त्वां तत्र नयिष्यतीति निगद्य देवी याक्तूष्णीं तस्थौ तावत्तत्रैको मयूरो गगनमण्डलादाययौ । तिलकमञ्जरी रत्नसारं निगदति - भोः कुमार ! देव्याः प्रसादेन मयूरोपरि समुपविश्य प्रतिदिनमादिनाथप्रभुं प्रत्यक्षफलप्रदमभ्यर्चितुं यत्र वने सा समागच्छति, तदेवेदं वनं तदेव मन्दिर - मिदम् । सा कन्याप्यहमेवास्मि स एवायं मयूरः । इति मामकं सर्वं चरित्रमवेहि । किञ्च चक्रेश्वर्या वचनेन श्रीआदिनाथप्रभुपूजाया श्रद्यैव त्रिंशत्तमं दिनं याति परमिदानीं पर्यन्तं भगिन्याः शुद्धिमेलनं वा मया न लेभे। अतः पृच्छामि - हे कुमार ! त्वमनेकदेशान् भ्रान्त्वा भ्रान्त्वात्रागतोऽसि । कुत्रापि काचिदधिकरूपलावण्यवती कन्या दृष्टा किं वा श्रुता । तत्रावसरे कुमार ऊचे - अि सुन्दरि ! अशेषमहीमण्डले परिभ्रमता मया भवादृशी त्रिभुवनविनिर्जितकामिनी नैव कुत्राप्यदर्शि, किन्तु शबरसेनाख्ये महावने कश्चिदेकस्तापसकुमारो दृष्टः । तस्यासीमरूपलावण्यतारूण्यं भवत्याः For Personal & Private Use Only nelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy