________________
चरित्रम्।
बद्धं
सार १२॥
न बिभ्ये । यतः कल्पान्तेऽपि धीरपुरुषाः कातरतां नाङ्गीकुर्वते । यदाह
भयस्य हेतौ समुपस्थिते हि, वीरोटप्राणनिराकरिष्णौ ।
न जातु चित्ते भयमेति नूनं, स एव धीरो भुवि वीरमान्यः ॥१॥ __अथैवं कुमारं स विद्याधराधीशः कल्पितैरशेषैरप्यात्मरूपैर्हन्तुं लग्नस्तथापि कुमारो धीरतयैव | ययुधान आसीत्कातरतां नापत् । परं सङ्कटे पतितं कुमारमालोक्य चन्द्रचूडो देवः स्वयं मुद्गरं
लात्वा तं विद्याधरेन्द्रं हन्तुमुत्तस्थौ । अतिभीमं मुद्गरेण निघ्नन्तं कल्पान्तकालोपमं तत्र समरे तिष्ठन्तं देवमुदीक्ष्य विद्याधरस्वामी तत्रास । तथापि धैर्यमाश्रित्य तेन देवेन सह चिरं शस्त्रास्त्रैरयु. ध्यत । परन्तु मूर्खाणां हृदये सदुपदेश इव वन्ध्यायाः पुत्रचिकित्सेव विद्याधरराजकृतः शस्त्रास्त्रप्रहारः कुमारविषये स्वीयसुकृतयोगतो देवमाहात्म्यतश्च विफल एवाभूत् । धर्मपुञ्जप्रभावात्सदैव प्राणिनः सुखमधिगच्छन्त्येव । यतः
पुण्यप्रभावादरयः प्रयान्ति, भवन्ति देवाः समरे सहायाः। हालाहलो याति सुधामयत्वं, नह्यस्ति पुण्यादपरो विशिष्टः ॥१॥ वने रणे शत्रुजलाग्निमध्ये, महार्णवे पर्वतमस्तके वा।
॥ १२॥
SainE
n
termal
For Personal Private Use Only