SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ 58 सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुरा कृतानि ॥ २ ॥ अथैवं शस्त्रास्त्राणि प्रहरन्तं विद्याधरेन्द्रमिन्द्रोऽसिना भूधरमिव स देवो मुद्गरेण ताडितवान्। तेन स महती पीडामाप, केवलं पीडैव नाभवत् , अपि तु बहुरूपकरी विद्यापि तत्क्षणमेव तमुज्झि- | तवती । तदा स दध्यौ-अहो महाद्भुतं जातम् , सर्वा सेना नष्टा, विद्यापि मे गता, मयेदानीं । किं विधेयम् ? एष कुमारः स्वभावादेव दुर्जयः प्रतीयते। अधुना तु देवतासहायतां नीतो विशेषतोऽस्ति दुर्धर्षः । अतः प्राणत्राणमेव श्रेयस्करमिदानीमित्यवधार्य द्रुतमेव स ततः पलायाञ्चक्रे । नष्टे स्वामिनि समस्ता चमूरप्यनश्यत् । इत्थं यदसौ रत्नसारः प्रबलमप्येनं विद्याधरेन्द्रमजैषीत् | तत्सकलं पूर्वकृतसद्धर्मस्यैव महिमास्ति । यो हि धर्मनिष्ठो भवति, तस्य सदैव विजयो जायते ।। | तदाह-"धर्मेण हन्यते व्याधिग्रहो धर्मेण हन्यते । धर्मेण हन्यते शत्रुर्यतो धर्मस्ततो जयः” ॥ __इत्थं दुर्जयं प्रचण्डदोर्दण्डं विपक्षं विजित्य रत्नसारस्तेन चन्द्रचूडाख्यदेवेन सह श्रीमदादिनाथभगवतो मन्दिरमगात् । अथेदृशमद्भुतं कुमारस्य चरित्रं निरीक्ष्य चमत्कृता, पुलकिताङ्गी, | तिलकमञ्जरी, मनस्येवमचिन्तयत् । अहो ! कोऽप्यसौ युवा पुरुषरत्नं प्रतीयते । यद्यसावेव मे Jain Educational For Personal Private Use Only linelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy