________________
58 सुप्तं प्रमत्तं विषमस्थितं वा, रक्षन्ति पुण्यानि पुरा कृतानि ॥ २ ॥ अथैवं शस्त्रास्त्राणि प्रहरन्तं विद्याधरेन्द्रमिन्द्रोऽसिना भूधरमिव स देवो मुद्गरेण ताडितवान्। तेन स महती पीडामाप, केवलं पीडैव नाभवत् , अपि तु बहुरूपकरी विद्यापि तत्क्षणमेव तमुज्झि- | तवती । तदा स दध्यौ-अहो महाद्भुतं जातम् , सर्वा सेना नष्टा, विद्यापि मे गता, मयेदानीं । किं विधेयम् ? एष कुमारः स्वभावादेव दुर्जयः प्रतीयते। अधुना तु देवतासहायतां नीतो विशेषतोऽस्ति दुर्धर्षः । अतः प्राणत्राणमेव श्रेयस्करमिदानीमित्यवधार्य द्रुतमेव स ततः पलायाञ्चक्रे । नष्टे स्वामिनि समस्ता चमूरप्यनश्यत् । इत्थं यदसौ रत्नसारः प्रबलमप्येनं विद्याधरेन्द्रमजैषीत् | तत्सकलं पूर्वकृतसद्धर्मस्यैव महिमास्ति । यो हि धर्मनिष्ठो भवति, तस्य सदैव विजयो जायते ।। | तदाह-"धर्मेण हन्यते व्याधिग्रहो धर्मेण हन्यते । धर्मेण हन्यते शत्रुर्यतो धर्मस्ततो जयः” ॥ __इत्थं दुर्जयं प्रचण्डदोर्दण्डं विपक्षं विजित्य रत्नसारस्तेन चन्द्रचूडाख्यदेवेन सह श्रीमदादिनाथभगवतो मन्दिरमगात् । अथेदृशमद्भुतं कुमारस्य चरित्रं निरीक्ष्य चमत्कृता, पुलकिताङ्गी, | तिलकमञ्जरी, मनस्येवमचिन्तयत् । अहो ! कोऽप्यसौ युवा पुरुषरत्नं प्रतीयते । यद्यसावेव मे
Jain Educational
For Personal Private Use Only
linelibrary.org