SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ 60 चरित्रम् । पबद्धंनसार १३॥ भ" स्याद् भगिनी च मे मिलेदत्रै तर्हि भाग्यं फलितं मस्ये, जीवनं च साफल्यं व्रजेत् । अथ तिलकमञ्जर्याः पार्श्वतस्तां हंसीं लात्वा कुमार एवमपृच्छत् ! अये हंसि ! कासि?, कथं वा विद्याधरस्त्वामगृह्णात् ? मनुष्यभाषां कथं ब्रवीषि ? एतत्सर्वं कथय । हंसी जल्पति-नाथ ! तव पुरुषरत्नस्याग्रेऽशेषमात्मवृत्तं निगदामि-वैताढ्यपर्वते रथनूपुरं नाम नगरमस्ति । तत्र तरुणीमगाङ्कनामा विद्याधरराजो राज्यं कुरुते । स चैकदा कनकपुरनगरोपरिष्टाद् गच्छन् कुत्रचिदुपवन आन्दोलनक्रीडनं विदधतीमतिरूपवतीमशोकमञ्जरी कन्यामपश्यत् । तस्या लोकोत्तरमनोहररूपेण | तारूण्यलावण्येन मोहितः स तत्कालमेव तामपहृत्य शबरसेनानामकेऽरण्ये निनाय । तत्र च Ko भृशं रुदतीमतिभीतां राजपुत्रीमवोचत्-सुन्दरि ! मा भैषीः, मा रोदीः, मत्तस्त्रस्यसि कथं ? | किमर्थं गात्रं कम्पयसि ? मां चौरं पररमणीलम्पटं हिंसकं वा मा वेदी:, किन्तु विद्याधराणां पतिं जानीहि । साम्प्रतं तावकाद्भुतलावण्यतारूण्यादिना वशंवदीभूय त्वामिदमेवाभ्यर्थये। यन्मां दासं विधाय सकलविद्याधरीणां स्वामिनी भवेति । तदाकर्ण्य सा राजपुत्री मनसि दध्यौ-धिग् धिक्कामान्धं पुमांसम् । यतः कामकिङ्करा नरा धीरा अपि विवेकविकला जायन्ते, जातिकुलादिसर्वमपि ॥ १३ ॥ Sain E a tional For Personal Private Use Only www.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy