________________
60
चरित्रम् ।
पबद्धंनसार १३॥
भ" स्याद् भगिनी च मे मिलेदत्रै तर्हि भाग्यं फलितं मस्ये, जीवनं च साफल्यं व्रजेत् । अथ तिलकमञ्जर्याः पार्श्वतस्तां हंसीं लात्वा कुमार एवमपृच्छत् ! अये हंसि ! कासि?, कथं वा विद्याधरस्त्वामगृह्णात् ? मनुष्यभाषां कथं ब्रवीषि ? एतत्सर्वं कथय । हंसी जल्पति-नाथ ! तव पुरुषरत्नस्याग्रेऽशेषमात्मवृत्तं निगदामि-वैताढ्यपर्वते रथनूपुरं नाम नगरमस्ति । तत्र तरुणीमगाङ्कनामा विद्याधरराजो राज्यं कुरुते । स चैकदा कनकपुरनगरोपरिष्टाद् गच्छन् कुत्रचिदुपवन
आन्दोलनक्रीडनं विदधतीमतिरूपवतीमशोकमञ्जरी कन्यामपश्यत् । तस्या लोकोत्तरमनोहररूपेण | तारूण्यलावण्येन मोहितः स तत्कालमेव तामपहृत्य शबरसेनानामकेऽरण्ये निनाय । तत्र च Ko भृशं रुदतीमतिभीतां राजपुत्रीमवोचत्-सुन्दरि ! मा भैषीः, मा रोदीः, मत्तस्त्रस्यसि कथं ? | किमर्थं गात्रं कम्पयसि ? मां चौरं पररमणीलम्पटं हिंसकं वा मा वेदी:, किन्तु विद्याधराणां पतिं
जानीहि । साम्प्रतं तावकाद्भुतलावण्यतारूण्यादिना वशंवदीभूय त्वामिदमेवाभ्यर्थये। यन्मां दासं विधाय सकलविद्याधरीणां स्वामिनी भवेति । तदाकर्ण्य सा राजपुत्री मनसि दध्यौ-धिग् धिक्कामान्धं पुमांसम् । यतः कामकिङ्करा नरा धीरा अपि विवेकविकला जायन्ते, जातिकुलादिसर्वमपि
॥ १३ ॥
Sain E
a
tional
For Personal Private Use Only
www.jainelibrary.org