________________
64
विस्मरन्ति । इत्थं विचिन्त्य सा मौनमालम्ब्य तस्थौ। तदा स एवमवेदीत्-यदधुना मातापित्रोविरहाकुला न भाषते, पश्चान्मय्यनुरागं विधास्यतीति निश्चित्य विद्याबलेन तां राजपुत्री तापसकुमारं कृतवान् , पुनः स्नेहमयेन वचसा प्रीणयन् भृशं सत्कुर्वन् तामलोभयत् । परन्तु क्षारभूमौ बीजवाप इव तस्यां विद्याधरनृपस्य प्रयासो वैफल्यमेव ययौ । तथापि तस्य तस्यां जातोऽनुरागो मनागपि नैव न्यवर्तत । यतः कामकिङ्करीभूतो नरः कदाग्रहं न जहाति । तदाहकदाग्रहग्रस्ततरो नरो वै, करोत्यकार्य सहसा सदैव । विवेकरत्नं परिहाय नूनं, भवाम्बुधौ मजति कर्मबद्धः।।१।।
अथैकदा स तापसकुमारं तत्रैव मुक्त्वा स्वनगरमियाय । तदनु कुतश्चित्तत्रागतस्य तवाग्रे यावदात्मचरितं निगदितुं प्रावर्त्तत तापसकुमारस्तावतत्रागतो विद्याधरेन्द्रो महावात्या रूपेण तापसकुमारं ततोऽप्यपहृत्य स्वपुरमानीतवान् । तत्र च स्वर्णमन्दिरे संस्थाप्य सुमधुरगिरा भृशमित्थं प्रार्थयितुं लग्नस्तथाहि-अयि सुन्दरि ! मां स्वदासं विधेहि, कदाग्रहं त्यज, अन्येन सह भाषसे, मया किमपराद्धं येन न ब्रूषे। मौनमेव श्रयसे किम् ? यदि न भाषिष्यसे तर्हि नूनमनेनैव खड्नेन त्वां हनिष्यामि । एवं वज्रोपमं तद्वचः संश्रुत्य साऽशोकमञ्जरी धैर्य मनसि
For Personal Private Use Only
Sinelibrary.org