SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ 64 विस्मरन्ति । इत्थं विचिन्त्य सा मौनमालम्ब्य तस्थौ। तदा स एवमवेदीत्-यदधुना मातापित्रोविरहाकुला न भाषते, पश्चान्मय्यनुरागं विधास्यतीति निश्चित्य विद्याबलेन तां राजपुत्री तापसकुमारं कृतवान् , पुनः स्नेहमयेन वचसा प्रीणयन् भृशं सत्कुर्वन् तामलोभयत् । परन्तु क्षारभूमौ बीजवाप इव तस्यां विद्याधरनृपस्य प्रयासो वैफल्यमेव ययौ । तथापि तस्य तस्यां जातोऽनुरागो मनागपि नैव न्यवर्तत । यतः कामकिङ्करीभूतो नरः कदाग्रहं न जहाति । तदाहकदाग्रहग्रस्ततरो नरो वै, करोत्यकार्य सहसा सदैव । विवेकरत्नं परिहाय नूनं, भवाम्बुधौ मजति कर्मबद्धः।।१।। अथैकदा स तापसकुमारं तत्रैव मुक्त्वा स्वनगरमियाय । तदनु कुतश्चित्तत्रागतस्य तवाग्रे यावदात्मचरितं निगदितुं प्रावर्त्तत तापसकुमारस्तावतत्रागतो विद्याधरेन्द्रो महावात्या रूपेण तापसकुमारं ततोऽप्यपहृत्य स्वपुरमानीतवान् । तत्र च स्वर्णमन्दिरे संस्थाप्य सुमधुरगिरा भृशमित्थं प्रार्थयितुं लग्नस्तथाहि-अयि सुन्दरि ! मां स्वदासं विधेहि, कदाग्रहं त्यज, अन्येन सह भाषसे, मया किमपराद्धं येन न ब्रूषे। मौनमेव श्रयसे किम् ? यदि न भाषिष्यसे तर्हि नूनमनेनैव खड्नेन त्वां हनिष्यामि । एवं वज्रोपमं तद्वचः संश्रुत्य साऽशोकमञ्जरी धैर्य मनसि For Personal Private Use Only Sinelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy