SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ चरित्रम् । बानसार १४॥ धृत्वा तमब्रवीत्-पुरुषाधम ! बलात्कस्मैचित्केनापि प्रेम दातुं नो शक्यते, राज्यादिकं तु वलादपि दीयते, परं मिथोऽनुरक्तयोरेव पुंसो रागः श्रेयान् भवति । यो हि मारकिङ्करीभूतो नरोऽकामयMal मानां कामिनी प्रार्थयते, तं पुरुषं धिगस्तु । एतच्छ्रुत्वा स विद्याधरेन्द्रोऽत्यन्तमकुप्यत् । को शाच्चा सिमाकृष्य तामेवमवदत्-अरे रण्डे ! पापिष्टे ! ममाग्र एव मामकी निन्दां जल्पसि । तत्फलमिदानीमेव दर्शयामि, सद्य एव ते शिरच्छेत्स्यामि । साऽवक्-रे पुरुषाधम ! यदि मां हातुं | नेच्छसि तर्हि मामवश्यमेव मारय । विचारान्तरं विलम्ब वा मा कृथाः, एतदकृत्याचरणान्मरण| मेव मे श्रेयस्करं प्रतिभातीति । अशोकमार्याः सुकृतनिचयोदयात्स मनस्येवमचिन्तयत्-अहो ! मयैतदनुचितं विदधे, यदस्या ईदृशं भाषितम् । सर्वत्रैव सरलसादरवचसैव प्रीतिरुत्पद्यते । हठेन तु स्त्रीणां जातोऽपि रागो गच्छत्येव । अतो मया कदापि कोपो न दर्शनीयः । मिष्टतरसादरसस्नेहवचसैव कामिनी सुरागिणी भवितुमर्हतीति निश्चित्य खरं काशे न्यधत्त । विद्याबलेन तां हंसी कृत्वा स्वर्णपिञ्जरेऽस्थापयत्। अनुक्षणं सादरं प्रियवचनैस्तोषयन्नासीत्। ततोऽन्यदा विद्याधरराजस्य पत्नी कमलमाला तां हंसी प्रार्थयन्तं स्वपतिं दृष्ट्वा मनास जातशङ्काऽचिन्तयत्-किमेतत् ? यदसौ ॥१४॥ For Personal Private Use Only Hinw.jainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy