________________
चरित्रम् ।
बानसार १४॥
धृत्वा तमब्रवीत्-पुरुषाधम ! बलात्कस्मैचित्केनापि प्रेम दातुं नो शक्यते, राज्यादिकं तु वलादपि
दीयते, परं मिथोऽनुरक्तयोरेव पुंसो रागः श्रेयान् भवति । यो हि मारकिङ्करीभूतो नरोऽकामयMal मानां कामिनी प्रार्थयते, तं पुरुषं धिगस्तु । एतच्छ्रुत्वा स विद्याधरेन्द्रोऽत्यन्तमकुप्यत् । को शाच्चा
सिमाकृष्य तामेवमवदत्-अरे रण्डे ! पापिष्टे ! ममाग्र एव मामकी निन्दां जल्पसि । तत्फलमिदानीमेव दर्शयामि, सद्य एव ते शिरच्छेत्स्यामि । साऽवक्-रे पुरुषाधम ! यदि मां हातुं | नेच्छसि तर्हि मामवश्यमेव मारय । विचारान्तरं विलम्ब वा मा कृथाः, एतदकृत्याचरणान्मरण| मेव मे श्रेयस्करं प्रतिभातीति । अशोकमार्याः सुकृतनिचयोदयात्स मनस्येवमचिन्तयत्-अहो ! मयैतदनुचितं विदधे, यदस्या ईदृशं भाषितम् । सर्वत्रैव सरलसादरवचसैव प्रीतिरुत्पद्यते । हठेन तु स्त्रीणां जातोऽपि रागो गच्छत्येव । अतो मया कदापि कोपो न दर्शनीयः । मिष्टतरसादरसस्नेहवचसैव कामिनी सुरागिणी भवितुमर्हतीति निश्चित्य खरं काशे न्यधत्त । विद्याबलेन तां हंसी कृत्वा स्वर्णपिञ्जरेऽस्थापयत्। अनुक्षणं सादरं प्रियवचनैस्तोषयन्नासीत्। ततोऽन्यदा विद्याधरराजस्य पत्नी कमलमाला तां हंसी प्रार्थयन्तं स्वपतिं दृष्ट्वा मनास जातशङ्काऽचिन्तयत्-किमेतत् ? यदसौ
॥१४॥
For Personal Private Use Only
Hinw.jainelibrary.org