SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रबद्य- नसार २६॥ श्रीसारो राजकुमारः कोहपालमित्याख्यत्-अरे ! एनं मुञ्च, मम मातुर्धनमसौ चोरितवान्, अतः चरित्रम् स्वयमेवाहमेतस्मै दण्डं समुचितं दास्यामीति । ततस्तं चौरं वधान्मोचयित्वा नगराबहिरेकान्ते । समानीय कुमारस्तस्येदृशीं शिक्षां ददौ-भो महानुभाव ! तव राज्ञा वध आदिष्टः। परन्तु अहं त्वाममोचयम् । अद्यप्रभृति चौर्यं मा कुरु, करिष्यास चेत्तर्हि स एव दण्डो मिलिष्यति, इत्यादि शिक्षि- | तश्चौरोपि तत्सन्निधौ चौर्यमद्यप्रभृति कदापि न करिष्यामीति शपथं-नियममकारोत् । ततः कुमा- 11 रस्तं प्रच्छन्नतया विससर्ज । अहो महात्मनां माहात्म्यम्, यदपकारिजनेऽपि दयामेव कुर्वन्ति, परन्तु सर्वेषां पञ्चमित्राणि तावन्तो द्विषश्च भवन्तीति निसर्गः। तेन हेतुना कोऽपि कमारविरोधी नृपकणे कुमारेण शूलिकातश्चौरो मोचितः । श्रीमता प्रभुणा निर्दिष्टस्य चौरवधस्यान्यथाकरणेन | कुमारस्य महानपराधो जात इति सूचयामास । तेन कुपितो नरपतिस्तदैव कुमारमाकार्य तदर्थम- | धिकं तिरस्कृतवान् । तथाहि-अरे ! ममाज्ञाया अपि त्वया भङ्गः कृतः। नृपादेशभङ्गकरणे किं जायते ? तन्न जानासि। इत्थं पित्रा तिरस्कृतः कुमारो मनसि खेदं वहन् कुत्राप्यन्यत्र ययौ। तदुक्तम् अरण्यं सारगर्गिरिकुहरगर्भाश्च हरिभिर्दिशो दिङ्मातङ्गैः सलिलमुषितं पङ्कजवनैः । ॥२६॥ For Personal & Private Use Only M ainelibrary.org
SR No.600186
Book TitleGadyabaddham Charitra Chatushtayam
Original Sutra AuthorRajendrasuri
Author
PublisherRajendrasuri Jain Granthmala
Publication Year
Total Pages190
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy